________________
रघुवंशे
नृपतिः कुशस्तदद्भुतं रात्रिवृत्तं रात्रिवृत्तान्तं प्रातः संसदि सभायां द्विजेभ्यः शशंस द्विजाः श्रुत्वैनं कुलराजधान्याः साक्षात्स्वयमेव पतित्वे विषये वृतमभ्यनन्दन् । पतित्वेन वृतोऽसी - त्यपूजयन् । आशीर्भिरिति शेषः । अत्र गार्ग्यः - 'दृष्ट्वा स्वप्नं शोभनं नैव सुप्यात्पश्चाद्दृष्टो यः स पाकं विधत्ते । शंसेदिष्टं तत्र साधुद्विजेभ्यस्ते चाशीर्भिः प्रीणयेयुर्नरेन्द्रम् ॥' इदमपि स्वप्नतुल्यमिति भावः ॥
३२८
४न्वयः: - नृपतिः तदद्भुतं रात्रिवृत्तं प्रातः संसदि द्विजेभ्यः शशंस, ते श्रुत्वा एनं कुलराजधान्याः साक्षात् पतित्वे वृतम् अभ्यनन्दन् ।
व्याख्या–नृन्=जनान् पाति = रक्षतीति नृपतिः = राजा कुशः, अत् = आश्चर्येऽव्ययं तस्य भवनम् अद्भुतं तत् = ! = पूर्वोक्तम् अद्भुतम् = विचित्रं रात्रौ = निशायां वृत्तं - जातमिति रात्रिवृत्तं प्रातः = प्रातः समये समयन्ति जनाः अस्यां सा संसत् तस्यां संसदि = सभायाम् द्विजेभ्यः ब्राह्मणेभ्यः शशंस = उक्तवान् ते = द्विजाः श्रुत्वा = आकर्ण्य एनं कुश कुलस्य = रघुवंशस्य राजधानी = प्रधाननगरी, इति कुलराजधानी तस्याः कुलराजधान्याः साक्षात् = स्वयमेव पत्युः = स्वामिनः भावः कर्म वा पतित्वं तस्मिन् पतित्वे = स्वामित्वविषये वृतम् - आहूतम् अभ्यनन्दन् = अभिनन्दन्ति स्म । राजधान्या स्वयमेव वृतोऽसि राज्यकर्तृत्वेनेति अपूजयन्नित्यर्थः ।
=
समासः -- राज्ञां धानी राजधानी, कुलस्य राजधानी कुलराजधानी तस्याः कुलराज - धान्याः । रात्रौ वृत्तमिति रात्रिवृत्तम् तत् ।
हिन्दी- - राजा कुश ने उस रात्रि में हुए विचित्र वृत्तान्त को प्रातः काल सभा में ब्राह्मणों को कहा ( सुनाया ) । वे इस समाचार को सुनकर कि राजा कुश को कुल की राजधानी की अधिष्ठात्री देवी ने स्वयमेव आकर अपना राजा चुना है, इसका अभिनन्दन किया ॥ २४ ॥
कुशावतीं श्रोत्रियसात्स कृत्वा यात्रानुकूलेऽहनि सावरोधः । अनुद्भुतो वायुरिवाभ्रवृन्दैः सैन्यैरयोध्याभिमुखः प्रतस्थे ॥ २५ ॥
स कुशः कुशावतीं श्रोत्रियेषु छान्दसेष्वधीनां श्रोत्रियसात् । ' तदधीनवचने' इति सातिप्रत्ययः । ‘श्रोत्रियंश्छन्दोधोते' इति निपातः । 'श्रोत्रियच्छान्दसौ समौ' इत्यमरः । कृत्वा यात्रानुकूलेऽहनि सावरोधः सान्तःपुरः सन् । वायुरभ्रवृन्दैरिव । सैन्यैरनुद्रुतोऽनुगतः सन्नयोध्याभिमुखः प्रतस्थे ॥
श्रन्वयः—सः कुशावतीं श्रोत्रियसात् कृत्वा यात्रानुकूले अहनि सावरोधः सन् वायुः अभ्रवृन्दैः है: इव सैन्यैः अनुद्रुतः सन् अयोध्याभिमुखः प्रतस्थे ।
व्याख्या - सः = राजा कुशः कुशावतीं = स्वकीयराजधानीं छन्दोऽधीयते इति श्रोत्रियाः छान्दसाः तेषु श्रोत्रियेषु अधीनां कृत्वा इति श्रोत्रियसात् कृत्वा = विधाय यात्रायाः = गमनस्य अनुकूलः = उपयुक्तः इति यात्रानुकूलस्तस्मिन् यात्रानुकूले = शोभनमुहूर्तयुक्ते अहनि = दिने अवरुध्यन्तेऽत्रेति अवरोधः, अवरोधेन = अन्तःपुरेण सहितः सावरोधः सन् वायुः = पवनः
=