________________
पञ्चदशः सर्गः
३०९
हिन्दी - सरयू में स्नान करने वालों की ऐसी भीड़ हुई, जैसी कि गउवों को पार ( किसी नदी से ) कराते समय होती है । वह भीड़-गोप्रतरण के समान थी इसी कारण उस पवित्र तीर्थ का नाम ही गोप्रतर संसार में प्रसिद्ध हो गया ।। १०१ ।।
स विभूर्विबुधांशेषु प्रतिपन्नात्ममूर्तिषु ।
त्रिदशीभूत राणां स्वर्गान्तरमकल्पयत् ॥ १०२ ॥
विभुः प्रभुः स रामो विबुधान | मंशेषु सुग्रीवादिषु प्रतिपन्नात्ममूर्तिषु सत्सु त्रिदशीभूता देवभुवनं गता ये पौरास्तेषां नूतनसुराणां स्वर्गान्तरमकल्पयत् ।।
अन्वयः - विभुः सः विबुधांशेषु प्रतिपन्नात्ममूर्तिषु सत्सु त्रिदशीभूतपौराणां स्वर्गान्तरम् अकल्पयत् ।
=
व्याख्यः– विभुः प्रभुः वस्तुतत्त्वावधारणसमर्थः, इत्यर्थः । सः = रामः विशिष्टः बुधः येषां ते विबुधाः, विशेषेण बुध्यन्ते इति वा विबुधाः, विबुधानां = सुराणाम् अंशाः = कलारूपाः, तेषु विबुधांशेषु = सुग्रीवादिषु प्रतिपन्नाः = स्वीकृताः आत्मनः = स्वस्थ, देवरूपस्यत्यर्थः, मूर्तयः = स्वरूपाणि यैस्ते तेषुप्रतिपन्नात्ममूर्तिषु सत्सु तिस्त्रः दशाः येषां ते त्रिदशाः । न त्रिदशाः अत्रिदशाः । अत्रिदशाः त्रिदशाः = देवाः संपद्यमानाः इति त्रिदशीभूताः । पुरे भवाः पौराः । त्रिदशीभूताः येपौराः = अयोध्यावासिनः इति त्रिदशीभूत पौरास्तेषांत्रिदशीभूतपौराणां = सरयूनद्यां स्नात्वा नूतनदेवत्वमाप्तानां साकेतनिवासिनामित्यर्थः । अन्यः स्वर्गः स्वर्गान्तरस्तंस्वर्गान्तरम् = अन्यसुरलोकम् अकल्पयत् = कल्पितवान् ।
समासः--विबुधानाम् अंशाः विबुधांशास्तेषु विबुधांशेषु प्रतिपन्नाः आत्मनः भूर्तयः यैस्ते, तेषु प्रतिपन्नात्ममूर्तिषु । त्रिदशीभूताश्च ये पौराः त्रिदशीभूतपौरा स्तेषां त्रिदशोभूतपौराणाम् । अन्यः स्वर्गः स्वर्गान्तरः तं स्वर्गान्तरम् ।
हिन्दी -- परमेश्वर राम ने, देवताओं के अंश से उत्पन्न सुग्रीवादि बन्दर एवं भालू आदि अपने-अपने स्वरूप ( पूर्व देव शरीर ) में आ जाने पर और जो अब नए देवता बने अयोध्यावासियों के लिये एक दूसरा स्वर्ग बना दिया । अर्थात् स्वर्ग में स्थान की कमी पड़ गई थी, सबके एक साथ आने पर अतः राम ने दूसरा नया स्वर्ग इनके लिये बना दिया ॥ १०२ ॥ निर्वत्यैवं दशमुखशिरश्छेदकार्यं सुराणां
विष्वक्सेनः स्वतनुमविशत्सर्वलोकप्रतिष्ठाम् ।
लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा
कीर्तिस्तम्मद्वयमिव गिरौ दक्षिणे चोत्तरे च ।। १०३ ।।
विष्वक्सेनो विष्णुरेवं सुराणां दशमुखशिरश्छेदकार्यं निर्वर्त्य निष्पाद्य । लङ्कानाथं विभोषणं पवनतनयं हनुमन्तं चोभयं कीर्तिस्तम्भयमिव । दक्षिणे गिरौ त्रिकूटे चोत्तरे गिरौ हिमवति च स्थापयित्वा । सर्वलोकप्रतिष्ठां सर्वलोकाश्रयभूतां स्वतनुं स्वमूर्तिमविशत् ॥