________________
रघुवंशे
उपस्थितविमानेन तेन, भक्तानुकम्पिना ।
चक्रे त्रिदिवनिश्रेणिः सरयूरनुयायिनाम् ॥ १० ॥ उपस्थितं प्राप्तं विमानं यस्य तेन। भक्ताननुकम्पत इति भक्तानुकम्पिना। तेन रामेणानुयायिनां सरयू स्त्रिदिवनिश्रेणिः स्वर्गाधिरोहणी चक्रे । 'निश्रेणिस्त्वधिरोहणी' इत्यमरः ॥
अन्वयः-उपस्थितविमानेन भक्तानुकम्पिना तेन अनुयायिनां सरयूः त्रिदिवनिश्रेणिः चक्रे ।
व्याख्या-उपस्थितं = समागतं विमानं = पुष्पकयानं यस्य स तेन उपस्थितविमानेन भज्यन्ते स्म इति भक्ताः = सेवकाः = तत्पराः तान् अनुकम्पते इति भक्तानुकम्पी तेन भक्तानुकम्पिना = भक्तवत्सलेनेत्यर्थः । तेन = रामेण अनु = पश्चात् यान्ति = गच्छन्तीति, अनुयायिनस्तेषाम् अनुयायिनाम् = अनुगामिनाम् सरयूः = नदी अयोध्यान्तिकवाहिनीत्यर्थः । तिसृष्वपि अवस्थासु, त्रयो ब्रह्मविष्णुमहेश्वराः वा दीव्यन्ति यत्र, इति त्रिदिवः = स्वर्ग: तस्य निश्रेणिः = अधिरोहिणी इति त्रिदिवनिश्रेणिः नियता = निश्चिता श्रेणिः = पंक्तिः यत्रेति निश्रेणिः । "निश्रेणिस्त्वधिरोहिणी" इत्यमरः । चक्रे = कृता ।
समासः-उपस्थितं विमानं यस्य स तेन उपस्थितविमानेन । भक्तानाम् अनुकम्पी भक्तानुकम्पी तेन भक्तानुकम्पिना । त्रिदिवस्य निश्रेणिरिति त्रिदिवनिश्रेणिः ।
हिन्दी-"जब राम चले तो उस समय उनको ले जाने के लिये” पुष्पक विमान आ गया, तब भक्तों पर कृपा करने वाले राम ने सरयू नदी को, पीछे आनेवाले अयोध्यावासियों के लिये स्वर्ग को सीढ़ी बना दिया । अर्थात् सरयू में स्नान करके सब स्वर्ग में चले गये ॥१०॥
यद्गोप्रतरकल्पोऽभूत्संमर्दस्तत्र मजताम् ।
अतस्तदाख्यया तीर्थ पावनं भुवि पप्रथे ।। १०१ । यद्यस्मात्तत्र सरवां मज्जता संमर्दः गोप्रतरो गोप्रतरणम् । तत्कल्पोऽभूत् । अतस्तदाख्यया गोप्रतराख्यया पावनं शोधकं तीर्थ भुवि पप्रथे ।।
अन्वयः-यत् तत्र मज्जतां संमर्दः गोप्रतरकल्पः अभूत् । अतः तदाख्यया पावनं तीर्थ भुवि पप्रथे।
व्याख्या-यत् = यस्मात् तत्र=सरयूनद्यां मज्जतां = स्नानं कुर्वताम् संमृद्यतेऽत्र स संमर्दः = अन्योन्यसंघर्षः गवां=धेनूनां प्रतरः= प्रतरणं तत्कल्पः = तत्सदृशः इति गोप्रतरकल्पः अभूत् = जातः, अतः = अस्मात्कारणात् तस्य = गोप्रतरस्य आख्या = नाम तया-तदाख्यया = गोप्रतरनाम्ना पावनं = शोधकं तीर्थ = पवित्रस्थानं क्षेत्रं भुवि = पृथिव्यां पप्रथे = प्रसिद्धमभूत् ।
समासः-गवां प्रतरः गोपतरः, गोप्रतरेण कल्पः, गोप्रतरकल्पः। तस्य आख्या, तदाख्या, तया तदाख्यया ।