________________
२८८
रघुवंशे
वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किंनरस्वनौ ।
किं तद्येन मनो हर्तुमलं स्यातां न शृण्वताम् ॥ ६४ ॥ रामस्य वृत्तं वर्ण्यम् । वस्त्विति शेषः। वाल्मीके: कृतिः काव्यम् । गेयमिति शेषः । तौ कुशलवौ किंनरस्वनौ किंनरकण्ठौ गायको। पुनरिति शेषः। अत एव तत्कि येन निमित्तेन तौ शृण्वतां मनो हर्तुमलं शक्तौ न स्याताम् । सर्व सरसमित्यर्थः ॥
अन्वयः--रामस्य वृत्तं वाल्मीकेः कृतिः “गेयमितिशेषः" तौ किन्नरस्वरौ “गायकौ” तत् किं येन "तो" शृण्वतां मनो हर्तुम् अलं न स्याताम् ।
व्याख्या-रामस्य = रामचन्द्रन्य वृत्तं = वर्णनीयं वस्त्विति शेषः। वाल्मीकेः= महरादिकवेः कृतिः= काव्यं गेयमिति शेषः, तौ = प्रसिद्धौ कुशलवौ बालकौ अश्वमुखत्वात् कुत्सिताः नराः किनराः। किंनराणां = गन्धर्वाणां स्वरः इव = स्वरः = शब्दः ययो स्तौ किंनरस्वरौ= गन्धर्व इव मधुरगायकी, इत्यर्थः। अतः एव तत् कि वस्तु, अवशिष्टमस्ति येन कारणेन तौ= कुशलवौ शृण्वताम् =आकर्णयतां श्रोतृणामित्यर्थः । मनः = चित्तं हतु = वशीकर्तुम् अलं = समर्थौ न स्यातां = नभवेताम् । अर्थात् सर्व सरसं मनोहारि च वर्तते इत्यर्थः ।
समासः-कुत्सिताः नराः किंनराः। किंनराणां स्वरः इव स्वरः ययोः तौ किंनरस्वरौ। हिन्दी-प्रथम तो राम का चरित्र ( सुन्दर पवित्रमनोहारी ) दूसरे महर्षि वाल्मीकि जी की रचना ( अभूतपूर्व आदि महाकाव्य ) और फिर गन्धों के समान मधुर स्वर वाले लवकुश उसके गाने वाले। इसलिये अब इसमें कमी क्या थी। जिससे सुनने वालों के मन को हरने ( मुग्ध करने ) में वे समर्थ न होते । अर्थात् सुन्दर मनोहर कथा को किंनर कण्ठ से गाने के कारण सब सुनकर मुग्ध हो गये। क्योंकि यहाँ सभी कुछ सुन्दर सरस था ॥ ६४ ॥
रूपे गीते च माधुर्य तयोस्तज्जैनिवेदितम् ।
ददर्श सानुजो रामः शुश्राव च कुतूहली ॥ ६५ ॥ ते जानन्तीति तज्ज्ञाः। तैस्तज्हरभिनिवेदितं तयोः कुशलवयो रूपे आकारे गीते च माधुर्य रामणीयकं सानुजो रामः कुतूहली सानन्दः सन्यथासंख्यं ददर्श शुश्राव च ॥
अन्वयः-तज्ः निवेदितं तयोः रूपे गीते च माधुर्यम् , सानुजः रामः कुतूहली सन् ददर्श, शुश्राव च। ___ व्याख्या-ते जानन्ति इति तज्ज्ञास्तैः तज्ज्ञैः = कुशलः, निपुणेः जनैः निवेदितं = विशापितं तयोः= कुशलवयोः रूपे = आकृतौ गीते = गाने “गीतं गानमिमे समे" इत्यमरः । मधु =माधुर्य राति, अस्ति अत्र वा मधुरं तस्य भावः कर्म वा माधुर्य = रामणीयकम् , अनुजैः = भ्रातृभिः सह सानुजः सभ्रातृकः रामः = दाशरथिः कुतूहलमस्यास्तीति कुतूहली = कौतुकी सन् सोत्कण्ठः सनित्यर्थः । यथासंख्यं ददर्श = दृष्टवान् , शुश्राव = अौषीत् च ।