________________
पञ्चदशः सर्गः
२८७
मखन्ति देवाः यत्र अनेन वा स मखः = यज्ञः प्रववृते = प्रवृत्तः। प्रारम्भोऽभूदित्यर्थः यत्र = यस्मिन् यज्ञे विशेषेण हन्यन्ते क्रियाः एभिरिति विघ्नाः=अन्तरायाः । क्रियायाः = अनुष्ठानस्य विघ्नाः इति क्रियाविघ्नाः यज्ञविघातकाः राक्षसाः-रक्षांसि एव = निश्चये रक्षिणः= रक्षकाः आसन् = अभवन् । पूर्व ये यशानुष्ठानविघातका आसन् रामस्याश्वमेधयशे ते एव रक्षका अभवन्निति वैशिष्ट्यमत्र।
समासः--अधिकः संभारः यस्मिन् सः अधिकसम्भारः । क्रियायाः विघ्नाः क्रियाविघ्नाः ।
हिन्दी-इसके बाद वह यज्ञ प्रारम्भ हुआ, जिसमें शास्त्रानुसार सामग्री से भी अधिक सामग्री एकत्रित हो गई थी। और यज्ञ-क्रिया में विघ्न करने वाले राक्षस ही इसमें रक्षा कर रहे थे। यह विशेषता थी राम के यज्ञ में ॥ ६२ ॥
अथ प्राचेतसोपझं रामायणमितस्ततः ।
मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौ ॥ ६३ ॥ अथ मैथिलेयौ। मैथिलीतनयौ 'स्त्रीभ्यो ढक्'। कुशलवौ गुरुणा वाल्मीकिना चोदितौ प्रेरितौ सन्तौ । प्राचेतसो वाल्मीकिः । उपशायत इत्युपज्ञा । 'आतश्चोपसगें'इति कर्मण्यङ्प्रत्ययः । प्राचेतसस्योपज्ञा प्राचेतसोपशम् । प्राचेतसेनादौ ज्ञातमित्यर्थः । 'उपज्ञा ज्ञानमाद्यं स्यात्' इत्यमरः । 'उपशोपक्रमं तदाद्याचिख्यासायाम्' इति नपुंसकत्वम् । अय्यते ज्ञायतेऽनेनेत्ययनम् । रामस्यायनं चरितं रामायणं रामायणाख्यं काव्यम् । 'पूर्वपदात्संज्ञायामगः' इति णत्वम् । उत्तरायणमितिवत् । इतस्ततो जगतुः । गायतेलिट् ॥
अन्वयः-अथ मैथिलेयौ कुशलवौ गुरुचौदितौ सन्तौ, प्राचेतसोपशं रामायणम् इतः ततः जगतुः।
व्याख्या-अथ = यशारम्भानन्तरम् मैथिल्याः अपत्यौ मैथिलेयौ= सीतापुत्रौ कुशश्च लवश्चेति कुशलवौ = एतन्नामको गुरुणा =महर्षिवाल्मीकिना चौदितौ= प्रेरिसौ, इति गुरुचौदितौ सन्तौ उपज्ञायते इति उपशा "उपशा ज्ञानमाद्यम्" इत्यमरः। प्रचेतसः गोत्रापत्यं पुमान् प्राचेतसः । प्राचेतसस्य = वाल्मीकेः उपज्ञा = उपदेशं विनाद्यं ज्ञानमिति प्राचेतसोपशम् , अय्यते = ज्ञायतेऽनेनेति अयनम् । रामस्य = रामचन्द्रस्य अयनं चरितमिति रामायणम् = आदिमहाकाब्यम् इतस्ततः= यत्रतत्र जगतुः।
समासः-प्राचेतसस्य उपशा इति प्राचेतसोपज्ञम् । रामस्य अयनमिति तत् रामायणम् । कुशश्च लवश्चेति कुशलवौ। - हिन्दी-इसके पश्चात् मिथिलेश पुत्री सीता जी के पुत्र लव और गुरु वाल्मीकि मुनि की आज्ञा पाकर प्रचेतस के गोत्र में उत्पन्न वाल्मीकि जी को प्रथम रचना आदिमहाकाव्य रामायण को गाते हुए इधर-उधर घूमने लगे ॥ ६३ ॥