________________
पञ्चदशः सर्गः
२७५
को मारने वाले, तथा झुककर प्रणाम करने वाले अपने अनुज शत्रुघ्न की प्रशंसा प्रसन्न होकर राम ने की।
विशेष-कालनेमि नाम का राक्षस सौ हाथ वाला था। इसे विष्णु ने मारा था। और कालनेमि रावण का चाचा दूसरा था इसे हनुमान जी ने मारा था ॥ ४० ॥
स पृष्टः सर्वतो वार्तमाख्यद्राज्ञे न संततिम् ।
प्रत्यर्पयिष्यतः काले कवेराद्यस्य शासनात् ॥ ४१ ॥ स शत्रुघ्नः पृष्टः सन् । सर्वतो वातं कुशलं राशे रामायाख्यदाख्यातवान् । चक्षिङो लुङ् । 'चक्षिङः ख्याञ्' इति ख्याञादेशः । 'अस्यतिवक्ति--' इत्यङ्। 'आतो लोप इटि च' इत्याकारलोपः । ख्यातेर्वा लुङ् । संततिं कुशलवोत्पत्तिं नाख्यत् । कुतः। कालेऽवसरे प्रत्यर्पयिष्यत आद्यस्य कवेर्वाल्मीकेः शासनात् ॥
अन्वयः-सः पृष्टः सन् सर्वतः वात राशे आख्यत् , सन्ततिं न आख्यत् , “यतः" काले प्रत्यपयिष्यतः आद्यस्य कवेः शासनात् ।
व्याख्या-सः = शत्रुघ्नः पृष्टः = नियोजितः सन् सर्वतः =सर्वस्मिन् कायें वातं = कुशलं राज्ञ = रामचन्द्राय आख्यत् = अकथयत्, सन्ततिं = पुत्रोत्पत्तिं न आख्यत् =न कथितवान् । यतः काले = अवसर प्राप्ते सति प्रत्यर्पयितुमिच्छति प्रत्यर्पयिष्यति, प्रत्यर्पयिष्यतीति प्रत्यर्पयिष्यन् तस्य प्रत्यर्पयिष्यतः = प्रत्यर्पयितुमिच्छतः आदौ भवः आद्यस्तस्य आद्यस्य = प्रथमस्य कवेः = कवयितुः वाल्मीकेः शासनात् = आदेशात् । शत्रुध्नेन पुत्रोत्पत्तिः न कथिता इत्यर्थः ।
हिन्दी-रामचन्द्र जी के पूछने पर शत्रुघ्न ने सब कुछ कुशल है। यह राजा से कह दिया। किन्तु लव कुश का जन्म नहीं बताया। इसलिये कि समय आने पर स्वयं पुत्रों को राम को सौंप देंगे यह आदि कवि वाल्मीकि का आदेश था। अतः उसने नहीं कहा ॥ ४१ ॥
अथ जानपदो विप्रः शिशुमप्राप्तयौवनम् ।
अवतार्याङ्कशय्यास्थं द्वारि चक्रन्द भूपतेः ॥ ४२ ॥ ___ अथ जनपदे भवो जानपदो विप्रः। कश्चिदिति शेषः । अप्राप्तयौवनं शिशुम् । मृतमिति शेषः । भूपते रामस्य द्वार्यकशय्यास्थं यथा तथावतार्याङ्कस्थत्वेनैवावरोप्य चक्रन्द चुक्रोश ॥ ___ अन्वयः-अथ जानपदः विप्रः अप्राप्तयौवनं शिशुं भूपतेः द्वारि अंकशय्यास्थं “यथा तथा" अवतार्य चक्रन्द।
व्याख्या-अथ = अनन्तरम् जनः=लोकः पदं = वस्तु यत्र स जनपदः जनपदे भवः जानपदः विप्रः कश्चित् ब्राह्मणः यूनो र्भावः योवनम् न प्राप्तं =नागतं यौवनं = तारुण्यं यस्य स तम् अप्राप्तयौवनं शिशुं = बालकं, मृतमिति शेषः भुवः = पृथिव्याः पतिः= स्वामी तस्य भूपतेः रामस्य द्वारि =द्वारदेशे अंकः = उत्संग एव शय्यातल्पमिति अंकशय्या तत्र तिष्ठतीति अंकशय्यास्थ स्तम् अंकशय्यास्थम् यथातथा अवतार्य =अवरोप्य चक्रन्द = चुक्रोश ।