________________
रघुवंशे
श्रभ्वयः -- सः सभामध्ये सभासद्भिः उपस्थितं सीतापरित्यागात् भुवः असामान्यपतिं रामं
ददर्श ।
२७४
व्याख्या - सः = शत्रुघ्नः सह भान्ति अस्यां सा सभा, समाना: भान्ति सर्वेऽस्यां वा सा सभा | सभायाः = संसदः मध्यम् = अन्तरं तस्मिन् सभामध्ये सभायां सीदन्ति ये ते सभासदः तैः सभासद्भिः = सभ्यैः उपस्थितं = सेवितं सीतायाः = जानक्याः परित्यागः = वने विसर्जनं तस्मात् सीतापरित्यागात् भुवः = पृथिव्याः समानस्य भावः कर्म वा सामान्यम् । न सामान्यः असामान्यः असामान्यश्चासौ पतिः = स्वामी इति असामान्यपतिः तम् असामान्यपतिं रामं = - रामचन्द्रं ददर्श = अवलोकयामास ।
समासः - सभायाः मध्यं तस्मिन् सभामध्ये । सीतायाः परित्यागः सीतापरित्याग स्तस्मात् सीतापरित्यागात् । न सामान्यः असामान्यः, असामान्यश्चासौ पतिः असामान्यपतिः तम् असामान्यपतिम् ।
हिन्दी - राज्यसभा में विराजमान, सभासदों से सेवित, और सीता जी को छोड़ देने से एकमात्र पृथिवी स्वामी, ( पति ) श्रीराम को शत्रुघ्न ने देखा ॥ ३९ ॥
तमभ्यनन्दत्प्रणतं लवणान्तकमग्रजः ।
कालनेमिवधात्प्रीतस्तुराषाडिव शार्ङ्गिणम् ॥ ४० ॥
अग्रजो रामो लवणस्यान्तकं हन्तारं प्रणतं तं शत्रुघ्नम् । कालनेमिर्नाम राक्षसः तस्य वधात्प्रीतः । तुरां वेगं सहत इति तुराषाडिन्द्रः । 'छन्दसि सह:' इति ण्विः । यद्वा सहतेर्णिचि कृते साहयतेः क्विप् । ‘अन्येषामपि दृश्यते' इति पूर्वपदस्य दीर्घः । 'सहेः साडः सः' इति षत्वम् । शाङ्गिणमुपेन्द्रमिव । अभ्यनन्दत् ॥
1
अन्वयः - अग्रजः लवणान्तकं प्रणतं तं कालनेमिवधात् प्रीतः तुराषाड् शाङ्गिणम् इव अभ्यनन्दत् ।
व्याख्या - अग्रे = प्रथमं जातः = उत्पन्नः सः अग्रजः = रामः लवणस्य = लवणासुरस्य अन्तकः = = विनाशकः : = हन्ता इति लवणान्तकस्तं लवणान्तकं प्रणतं = प्रणामं कुर्वन्तं तं = शत्रुघ्नम् कालस्येव नेमिरस्ति अस्य स कालनेमिः तस्य वधः = मारणं तस्मात् कालनेमिवधात् = एतन्नामकराक्षसवधकरणात् प्रीतः = प्रसन्नः । तुतोतिं इति तुरः, तुरं = वेगवन्तं साहयति = अभिभवतीति तुराषाट् = इन्द्रः शृंगस्य विकारः शार्ङ्ग = धनुः अस्ति अस्य स शार्ङ्गं तं शाङ्गिणं विष्णुम् इव = यथा अभ्यनन्दत् = अभिनन्दितवान् ।
=
समास:--
: -- अग्रे जातः अग्रजः । लवणस्य अन्तकः लवणान्तकस्तं लवणान्तकम् । कालस्य इवास्ति नेमिर्यस्य स कालनेमिः, तस्य वधस्तस्मात् कालनेमिवधात् ।
हिन्दी - जिस प्रकार कालनेमि नाम के राक्षस को मारने से प्रसन्न होकर इन्द्र ने अपने छोटे भाई सींग के बने धनुष वाले विष्णु का अभिनन्दन किया था । उसी प्रकार लवणासुर