________________
२७२
रघुवंशे
हिन्दी–महाराज रघु के वंश में उत्पन्न, दक्षिणापत्य, गार्हपत्य, आहवनीय इन तीन अग्नियों के समान तेजस्वी, राम से अन्य भरत, लक्ष्मण, शत्रुध्न भी अपनी-अपनी पत्नियों के संबंध से सब दो-दो पुत्र वाले थे अर्थात् इन तीनों को भी दो-दो पुत्र हुए थे ॥ ३५ ॥
शत्रुधातिनि शत्रुघ्नः सुबाहौ च वहुश्रुते ।
मधुराविदिशे सून्वोर्निदधे पूर्वजोत्सुकः ॥ ३६ ॥ पूर्वजोत्सुको ज्येष्ठप्रियः शत्रुघ्नो बहुश्रुते शत्रुधातिनि सुबाहौ च तन्नामकयोः सून्वोर्मधुरा च . विदिशा च ते नगर्यो निदधे । निधाय गत इत्यर्थः ॥
अन्वयः-पूर्वजोत्सुकः शत्रुघ्नः बहुश्रुते शत्रुवातिनि सुबाहौ च सून्वोः मधुराविदिशे निदधे ।
व्याख्या-पूर्वस्मिन् काले जाताः पूर्वजाः, पूर्वजेपु =रामभरतलक्ष्मणेषु उत्सुकः = उत्कण्ठितः इति पूर्वजोत्सुकः, ज्येष्ठदर्शनोत्कण्ठित इत्यर्थः। शत्रुन् हन्तीति शत्रुघ्नः = लक्ष्मणानुजः बहु = प्रचुरं श्रुतं = शास्त्रं यस्य स तरिमन् बहुश्रुते, बहुशे, इत्यर्थः शत्रून् घातयतीति शत्रुघाती तस्मिन् शत्रुघातिनि = शत्रुविनाशके, इत्यर्थः। सु = सुन्दरौ बाहू = भुजौ यस्य स तस्मिन् सुबाहौ च, शत्रुघातिसुबाहुनामकयोः सून्वोः= पुत्रयोः मधुराच विदिशा च मधुराविदिशे = एतन्नामकनगर्यो निदधे = दत्तवान्। शत्रुघातिनामके पुत्रे मधुरां निधाय, सुबाहुनामके च पुत्रे विदिशां निधाय शत्रुघ्नः रथमास्थाय रामं द्रष्टुं गत इत्यर्थः । ___ समासः-पूर्वजे उत्सुकः पूर्वजोत्सुकः । मधुरा च विदिशा चेति मधुराविदिशे। बहु श्रुतं यस्य स बहुश्रुतः, तस्मिन् बहुश्रुते ।
हिन्दी-अपने बड़े भाइयों के दर्शन के लिये उत्कण्ठित ( उतावले ) शत्रुघ्न ने, शास्त्रों के ज्ञाता विद्वान् शत्रुघाती और सुबाहु नामक पुत्रों को मधुरा और विदिशा सौंप दी। अर्थात् शत्रुघाती को मधुरा का राज्य और सुबाहु को विदिशा का राज्य देकर बड़े भाइयों से मिलने चले गये ॥ ३६॥
भूयस्तपोव्ययो मा भूद्वाल्मीकेरिति सोऽत्यगात् ।
मैथिलीतनयोद्गीतनिःस्पन्दमृगमाश्रमम् ॥ ३७ ॥ स शत्रुघ्नो मैथिलीतनययोः कुशलवयोरुद्गीतेन निःस्पन्दमृगं गीतप्रियतया निश्चलहरिणं वाल्मीकेराश्रमम् । भूयः पुनरपि तपोव्ययः संविधानकरणार्थ तपोहानिर्मा भूदिति हेतोः अत्यगात् । अतिक्रम्य गत इत्यर्थः ।।
अन्वयः-सः मैथिलीतनयोद्गीतनिःस्पन्दमृगम् वाल्मीकेः आश्रमं भूयः तपोव्ययः मा भूत्
इति अत्यगात् ।
व्याख्या-सः = शत्रुघ्नः मैथिल्याः सीतायाः तनयौ = कुशलवौ, इति मैथिलीतनयौ तयोः उद्गीतं = रामायणगानं तेन निःस्पन्दाः = निश्चलाः गीतप्रियत्वादित्यर्थः । मृगाः = हरिणाः