________________
पञ्चदशः सर्गः
२७१
अन्वयः-तौ सुतौ रामस्य वृत्तं मातुः अग्रतः मधुरं गायन्तौ, तद्वियोगव्यथां किञ्चिच्छिथिलीचक्रतुः।
व्याख्या-तौ = कुशलवौ सुतौ = पुत्रौ रामस्य = रामचन्द्रस्य वृत्तं = चरितं, कथां मान्यते = पूज्यते या सा माता=जननी, तस्याः मातुः =सीतायाः अग्रतः = अग्रे मधु =माधुर्यमस्यास्तीति मधुरं तत् मधुरं = अतिप्रियं गायन्तौ = गानं कुर्वन्तौ तस्य = रामस्य वियोगः = विरहः इति तद्वियोगः तेन या व्यथा = वेदना = दुःखमित्यर्थः तां तद्वियोगव्यथां किंचित् = ईषत् न शिथिला, अशिथिला, अशिथिलां शिथिलां कृतवन्तौ इति किंचिच्छिथिलीचक्रतुः = किंचिल्लघूकृतवन्तौ।
समासः-तस्य वियोगः तद्वियोगः तेन या व्यथा तां तद्वियोगव्यथाम् ।
हिन्दी-उन दोनों पुत्रों ( बालकों ) ने अपनी पूज्य माँ के सामने रामचन्द्र की मधुर मनोहारिणी कथा, गाकर राम के विरह से उत्पन्न सीता के दुःख को कुछ शान्त कर दिया। कम कर दिया ॥ ३४ ॥
इतरेऽपि रघोवंश्यास्त्रयस्त्रेताग्नितेजसः ।
तद्योगात्पतिवनीषु पत्नीष्वासन्द्विसूनवः ॥ ३५ ॥ रघोर्वश्या वंशे भवाः। तेत्यग्नयस्त्रेताग्नयः तेषां तेज इत्र तेजो येषां ते त्रेताग्नितेजसः। इतरे रामादन्ये त्रयो भरतादयोऽपि तद्योगात्तेषां योगाद्भरतादिसंबन्धात्पतिवनीषु भर्तृमतीषु जीवत्पतिकासु। ख्यातिमतीष्वित्यर्थः। 'पतिवनी सभर्तृका' इत्यमरः। 'अन्तर्वत्पतिवतोर्नुक्' इति ङीपप्रत्ययो नुगागमश्च । पत्नीषु द्विसूनव आसम् । द्वौ द्वौ सूनू येषां ते द्विसनव इति विग्रहः। क्वचित्संख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सप्तपर्णादिवत् ॥
अन्वयः--रघोः वंश्याः त्रेताग्नितेजसः इतरे त्रयः तद्योगात् पतिवलीषु पत्नीषु द्विसूनवः आसन् ।
व्याख्या-रघोः = दिलीपसूनोः वंशे =कुले भवाः= उत्पन्नाः इति वंश्याः त्रीन् मेदान् एति प्राप्नोतीति त्रेता, त्रित्वमिता=गता वा त्रेता त्रेता इत्यग्नयः इति त्रेताग्नयः । त्रेताग्नीनां= दक्षिणाग्निगार्हपत्याहवनीयानां तेजः इव तेजः= प्रतापः येषां ते त्रेताग्नितेजसः इतरे = रामादपरे त्रयः = भरतलक्ष्मण शत्रुघ्नाः अपि समुच्चये तेषां = त्रयाणां योगात् = सम्बन्धात् पतिः अस्ति यासां ता पतिवल्यः तासु पतिवत्नीषु =सभर्तृकासु “पतिवत्नी सभर्तृका" इत्यमरः । जीवत्पतिकासु प्रसिद्धासु, इत्यर्थः। पत्नीषु =भार्यासु द्वौ द्वौ सूनू = पुत्रौ येषां ते द्विसूनवः आसन् = अभूवन् । प्रत्येक भ्रातुः सकाशात् द्वौ द्वौ पुत्रौ उत्पन्नौ, इत्यर्थः ।
समासः-त्रेता इति अग्नयः वेत्राग्नयः, त्रेताग्नीनां तेजः इव तेजः येषां ते त्रेताग्नितेजसः । तेषां योगः तस्मात् तद्योगात् । द्वौ द्वौ सूनू येषां ते द्विसूनवः ।