________________
पञ्चदशः सर्गः
२६७
समासः-चरितः अर्थः येषान्ते स्तैः चरितार्थैः । विक्रमेण उदग्रमिति विक्रमोदग्रम् । हिन्दी—जिनका कार्य पूरा हो गया है। ऐसे तपस्विजनों से स्तुति ( बड़ाई ) किये जा रहे शत्रुघ्न का शिर, वीरता का कार्य करने से ऊँचा, और लज्जाशील नम्र ( झुका ) होकर सुशोभित हुआ । पराक्रम का लज्जा, नम्रता ही भूषण है ॥ २७ ॥
उपकूलं स कालिन्द्याः पुरी पौरुषभूषणः । निर्ममे निर्ममोऽर्थेषु मधुरां मधुराकृतिः ॥ २८॥ पौरुषभूषणः। अर्थेषु विषयेषु निर्ममो निःस्पृहः। मधुराकृतिः सौम्यरूपः स शत्रुघ्नः कालिन्द्या यमुनाया उपकूलं कूले। विभक्त्यर्थेऽव्ययीभावः । मधुरां नाम पुरी निर्ममे निर्मितवान् ॥ __अन्वयः-पौरुषभूषणः अर्थेषु निर्ममः मधुराकृतिः सः कालिन्द्याः उपकूलं मधुरां पुरी निर्ममे।
व्याख्या-पुरुषस्य भावः कर्म वा पौरुषः=पुरुषभावः, उद्योगः एव भूषणम् =अलंकारः यस्य स पौरुषभूषणः अर्थेषु = विषयेषु निर्गतं मम, इत्याकारं ज्ञानं यस्मात् स निर्ममः = निस्पृहः “षष्ठयर्थवृत्तिः अस्मच्छब्दार्थः ममेत्यव्ययः । मधुरा = मनोहरा आकृतिः=स्वरूपं यस्य स मधुराकृतिः सः शत्रुघ्नः कलिन्दस्य इयं कालिन्दी तस्याः कालिन्द्याः यमुनायाः कूले इति उपकूलं तटे मधुरां=एतन्नाम्नी मथुरामित्यर्थः । पुरी नगरी निर्ममे निर्मितवान् ।
समासः-पौरुषः भूषणं यस्य स पौरुषभूषणः। मधुरा आकृतिः यस्य स मधुराकृतिः । कूले इति, उपकूलम् । निर्गतं मम यस्मात् स निर्ममः ।
हिन्दी-पराक्रम भूषण वाले, ममता से रहित, तथा जितेन्द्रिय, सौम्य सुन्दर शत्रुघ्न ने यमुना के किनारे पर मथुरा नाम की नगरी का निर्माण किया, बसाई ॥ २८ ॥
या सौराज्यप्रकाशामिर्बभौ पौरविभूतिभिः । स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता ॥ २९ ॥ या पूः। शत्रुघ्नः सोभनो राजा यस्याः पुरः सा सुराज्ञी सुराश्या भावः सौराज्यम् । तेन प्रकाशमानाभिः पौराणां विभूतिभिरैश्वर्यैः स्वर्गस्याभिष्यन्दोऽतिरिक्तजनः तस्य वमनमाहरणं कृत्वोपनिवेशितोपस्थापितेव बभौ। अत्र कौटिल्यः-'भूतपूर्वमभूतपूर्व वा जनपदं परदेशप्रवाहेण स्वदेशाभिष्यन्दवमनेन वा निवेशयेत्' इति ॥
अन्वयः—या सौराज्यप्रकाशाभिः पौरविभूतिभिः स्वर्गाभिष्यन्दवमनं कृत्वा उपनिवेशिता इव बभौ।
व्याख्या-या =मधुरा नगरी सुशोभनः शत्रुघ्नः राजा नृपः यस्याः सा सुराशी, सुराश्याः भावः सौराज्यं सौराज्येन प्रकाशाः= प्रकाशमानाः, देदीप्यमानाः ताभिः सौराज्यप्रकाशाभिः, पुरे भवाः पौराः, पौराणां =नागरिकाणां विभूत्यः=ऐश्वर्याणि ताभिः पौरविभूतिभिः, सुष्ठु अय॑ते इति स्वर्गः, स्वर्गस्य = देवलोकस्य अभिष्यन्दः=आधिक्यम् , अतिरिक्तजनः, इति