________________
२६६
रघुवंशे
समासः-प्रतिरूपो द्वन्दी प्रतिद्वन्दी, तस्य प्रतिद्वन्दी तत्प्रतिद्वन्दी तस्य तत्प्रतिद्वन्दिनः । कुसुमानां वृष्टयः कुसुमवृष्टयः ।
हिन्दी-मरे हुए उस राक्षस के ऊपर गिद्ध, कौआ आदि पक्षी टूट पड़े, अर्थात् उसका मांस खाने के लिये। और उसके प्रति पक्षी शत्रुघ्न के मस्तक पर स्वर्ग से पुष्पों की वर्षा होने लगी ॥ २५॥
स हत्वा लवणं वीरस्तदा भेने महौजसः ।
भ्रातः सोदर्यमात्मानमिन्द्रजिद्वधशोभिनः ॥ २६ ॥ स वोरः शत्रुघ्नो लवणं हत्वा तदात्मानं महौजसो महाबलस्येन्द्रजिद्धेन शोभिनो भ्रातुर्ल. क्ष्मणस्य समानोदरे शयितं सोदर्यमेकोदरं मेने । 'सोदरायः' इति यप्रत्ययः ॥
अन्वयः-सः वीरः लवणं हत्वा तदा आत्मानम् महौजसः, इन्द्रजिद्वधशोभिनः भ्रातुः सौदर्य मेने।
व्याख्या-सः = लवणासुरघातकः वीरयतीतिवीरः = शूर “वीरः शरोविक्रान्तः” इत्यमरः । लवणं राक्षसं हत्वा = विनाश्य तदा तस्मिन्काले आत्मानं = स्वं महत् = प्रभूतम् ओजो= वलं यस्य स तस्य महौजसः इन्द्रं जयतीति इन्द्रजित् । इन्द्रजितः = मेवनादस्य वधः =मारणं तेन शोभते शालते, तच्छीलः इन्द्रजिद्वधशोभी तस्य इन्द्रजिद्वधशोभिनः भ्रातुः लक्ष्मणस्य समाने तुल्ये उदरे=कुक्षौ शयितः, इतिसौदर्यस्तं सौदर्य समानोदयं मेने अमंस्त ।
समासः-महत् ओजो यस्य स महौजास्तस्य महौजसः। इन्द्रजितः वधः, इन्द्रजिद्वधस्तेन शोभी इति इन्द्रजिद्वधशोभी तस्य इन्द्रजिद्वधशोभिनः। समाने उदरे शयितः सोदर्यस्तं सौदर्यम् ।
हिन्दी-उस पराक्रमी शत्रुघ्न ने लवणासुर को मार कर, तब अपने को, इन्द्रविजयी मेघनाद को मारने से शोभायमान लक्ष्मण का सहोदर भाई माना ॥ २६ ॥
तस्य संस्तूयमानस्य चरितार्थेस्तपस्विभिः ।
शुशुभे विक्रमोदग्रं वीडयावनतं शिरः ॥ २७ ॥ चरितार्थैः कृतार्थैः कृतकार्यैस्तपस्विभिः संस्तूयमानस्य तस्य शत्रुघ्नस्य विक्रमेणोदयमुन्नतं ब्रीडया लज्जयावनतं नम्र शिरः शुशुभे । विक्रान्तस्य लज्जैव भूषणभिति भावः ॥
अन्वयः-चरितार्थैः तपस्विभिः संस्तूयमानस्य तस्य विक्रमोदग्रं ब्रीडया अवनतं शिरः शुशुभे।
व्याख्या-चरितः सम्पादितः, कृतः अर्थः प्रयोजनं, कार्य येषान्ते तैः चरितार्थैः तपः अस्ति येषां ते तैः तपस्विभिः =तापसैः, आश्रमवासिभिरित्यर्थः। संस्तूयते इति संस्तूयमानस्तस्य संस्तूयमानस्य = प्रशंस्यमानस्य तस्य शत्रुघ्नस्य विक्रमेण = पराक्रमेण, शौर्येणेत्यर्थः उदग्रम् = उन्नतं, व्रीडया = लज्जया च अवनतं विनम्रं शिरः मस्तकं शुशुभे दिदीपे।