________________
બુઢ
हिन्दी – जाते हुए शत्रुघ्न ने मार्ग में एक रात निवास किया, जिसमें रथ के रहे थे ॥ ११ ॥
रघुवंशे
पड़ने के कारण, वाल्मीकि मुनि के उस तपोवन में शब्द को सुनकर ऊपर गर्दन उठाये मृग देख
तमृषिः पूजयामास कुमारं क्लान्तवाहनम् । तपःप्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिः ॥ १२ ॥
क्लान्तवाहनं श्रान्तयुग्यं तं कुमारं शत्रुघ्नमृषिर्वाल्मीकिस्तपःप्रभावसिद्धाभिविशेषप्रतिपत्तिभिरुत्कृष्टसंभावनाभिः पूजयामास ॥
अन्वयः–क्लान्तवाहनं तं कुमारं ऋषिः तपःप्रभावसिद्धाभिः विशेषप्रतिपत्तिभिः पूजयामास ।
=
व्याख्या - वाहयन्तीति वाहनानि, क्लान्तानि = श्रान्तानि वाहनानि = अश्वाः यस्य स तं क्लान्तवाहनं तं = प्रसिद्धं कुमारं शत्रुघ्नं ऋषति जानाति सर्वमिति ऋषि: =वाल्मीकिः तपसः = तपश्चर्यायाः प्रभावः=प्रतापः तेन सिद्धाः = निष्पन्नास्ताभिः तपःप्रभावसिद्धाभिः विशेषाः : उत्कृष्टाः राजकुमारयोग्याः इत्यर्थः प्रतिपत्तयः = सम्भावनाः आसनशयनान्नपानाद्या इत्यर्थः ताभिः विशेषप्रतिपत्तिभिः पूजयामास - अर्चयामास । उत्कृष्टसामग्रीभिः सत्कारं कृतवानित्यर्थः ।
=
समासः - क्लान्तानि वाहनानि यस्य स तं क्लान्तवाहनम् । तपसः प्रभावः तपःप्रभावः । तपःप्रभावेण सिद्धास्ताभिः तपःप्रभावसिद्धाभिः । विशेषाश्च ताः प्रतिपत्तयः विशेषप्रतिपत्तयस्ताभिः विशेषप्रतिपत्तिभिः ।
हिन्दी — जिसके घोड़े थक गये थे, ऐसे उस राजकुमार शत्रुघ्न का, महर्षि वाल्मीकि जो ने अपनी तपस्या के प्रभाव से बड़ा ही विशिष्ट राजकुमार के योग्य सत्कार किया ॥ १२ ॥ तस्यामेवास्य यामिन्यामन्तर्वस्त्री प्रजावती ।
सुतावसूत संपन्नौ कोशदण्डाविव क्षितिः ॥ १३॥
तस्यामेव यामिन्यां रात्रावस्य शत्रुघ्नस्य । अन्तरस्या अस्तीत्यन्तर्वलीगर्भिणी । ' अन्तर्वली च गर्भिणी' इत्यमरः । ‘अन्तर्वत्पतिवतोर्नुक्' इति ङीप्नुगागमश्च । प्रजावती भ्रातृजाया सीता । क्षितिः संपन्नौ समग्रौ कोशदण्डाविव सुतावसूत ॥
अन्वयः—तस्याम् एव यामिन्याम् अस्य अन्तर्वली प्रजावती, क्षितिः सम्पन्नौ कोशदण्डौ सूत असूत ।
व्याख्या—तस्याम् एव = यस्यां रात्रौ श्रान्तत्वात् वसतिं कृतवान् इत्यर्थः भयहेतुत्वात् निन्दिताः यामाः=प्रहरा: यस्याः सा यामिनी निन्दायामिनि प्रत्ययः । तस्यां यामिन्यां = रात्रौ अस्य = शत्रुघ्नस्य अन्तरस्ति गर्भः यस्यां सा अन्तर्वली = गर्भिणी प्रजास्या अस्तीति प्रजावती = भ्रातृजाया-सीता इत्यर्थः क्षितिः = पृथिवो सम्पन्नौ = सम्पूर्णौ कोशः = अर्थश्च दण्डः दमश्च चतुथोपायः, इति कोशदण्डौ इव यथा सूतौ पुत्रौ कुशलवौ, इत्यर्थ: असूत = जनयामास ।