________________
पञ्चदशः सर्गः
२५७ अन्वयः-रथप्रष्ठैः मुनिभिः आदिष्टवा गच्छन् तपतां मध्ये वरः सः वालखिल्यै अंशुमान् इव रराज।
व्याख्या–प्रतिष्ठन्ते = अग्रतो गच्छन्तीति प्रतिष्ठाः । रथस्य = स्यन्दनस्य प्रतिष्ठाः =अग्रगामिनः तैः रथप्रष्ठैः मुनिभिः आदिष्टं = प्रदर्शितं वर्म =मार्गः यस्य सः आदिष्टवा गच्छन् = व्रजन् तपता=देदीप्यमानानां मध्ये अन्तरा वरः= श्रेष्ठः सः= शत्रघ्नः वालखिल्यैःअंगुष्ठमात्रैः दिव्यैः ऋषिभिः अंशवः सन्ति अस्यासौ अंशुमान् = सूर्यः इव = यथा रराज = शुशुभे । मुनयोऽपि रथप्रष्ठा इत्यनुसन्धेयम् ।
समासः-आदिष्टं वर्त्म यस्य सः आदिष्टवा । रथस्यप्रष्ठाः इति रथप्रष्ठास्तैः रथप्रष्ठैः ।
हिन्दी-रथ के आगे चलने वाले मुनियों ने जिसे रास्ता बता दिया, तथा मार्ग में चलते हुए, और देदीप्यमान ( तेजस्वी ) उन मुनियों के बीच में शत्रुघ्न ऐसे सुशोभित हो रहे थे। जैसे सूर्य के रथ के आगे-आगे चलने वाले वालखिल्य ऋषियों से सूर्य सुशोभित होते हैं। ये मुनि भो रथ में बैठकर आगे चल रहे थे।
विशेष-ब्रह्मा जी के रोम से उत्पन्न हुए, अँगूठे के समान आकार वाले साठ हजार वालखिल्य ऋषि हैं । जो कि रथ पर चढ़कर सूर्य के आगे मार्ग दिखाते हुए चलते हैं ॥ १० ॥
तस्य मार्गवशादेका बभूव वसतिर्यतः ।
रथस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने ॥ ११ ॥ यतो गच्छतः । इण्धातोः शत् प्रत्ययः। तस्य शत्रुध्नस्य मार्गवशाद्रथस्वन उत्कण्ठा उद्ग्रीवा मृगा यस्मिंस्तरिभन्वाल्मीकीये वाल्मोकिसंबन्धिनि । 'वृद्धाच्छः' इति छप्रत्ययः। तपोवन एकावसती रात्रिर्बभूव । तत्रैकां रात्रिमुषित इत्यर्थः । 'वसती रात्रिवेश्मनोः' इत्यमरः ॥
अन्वयः–यतः तस्य मार्गवशात् रथस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने एका वसतिः बभूव । - व्याख्या-एति = गच्छतीति यन् तस्य यतः= गच्छतः तस्य शत्रुघ्नस्य मार्गस्य = अध्वनः वशः= अधीनः, तस्मात् मार्गवशात् =मार्गस्य = कारणादित्यर्थः। रथस्य = स्यन्दनस्य स्वनः= शब्दः इति रथस्वनस्तस्मिन् उत्कण्ठाः=ऊर्ध्वग्रीवाः मृगाः = हरिणाः यस्मिन् तत्, तस्मिन् रथस्वनोत्कण्ठमृगे, उत् = ऊर्ध्वं कण्ठः येषां ते उत्कण्ठाः। वाल्मीकेः इदं वाल्मीकीयं तस्मिन् वाल्मीकीये = वाल्मीकिमुनिसम्बन्धिनि तपसो वनमिति तपोवनं तस्मिन् तपोवने = आश्रमे एका केवला वसन्ति जीवाः अस्यां सा वसतिः रात्रिः “वसती रात्रिवेश्मनोः” इत्यमरः। महर्षिवाल्मीकेः आश्रमे एकां रात्रिमुषितवानित्यर्थः।
समासः—मार्गस्य वशः मार्गवशस्तस्मात् मार्गवशात् । उत् = ऊर्ध्व कण्ठः येषां ते उत्कण्ठाः । रथस्य स्वनः रथस्वनः रथस्वने उत्कण्ठाः मृगाः यस्मिन् तत् , तस्मिन् रथस्वनोत्कण्ठमृगे। तपसः वनमिति तपोवनं तस्मिन् तपोवने ।