________________
पञ्चदशः सर्गः
२५५
रामस्य स्वयमप्रयाणे हेतुमाह
यः कश्चन रघृणां हि परमेकः परंतपः ।
अपवाद इवोत्सर्ग व्यावर्तयितुमीश्वरः ॥ ७ ॥ हि यस्मात् । परान्छत्रुस्तापयतीति परंतपः । 'द्विषत्परयोस्तापेः' इति खच्प्रत्ययः । 'खचि ह्रस्वः' । इति ह्रस्वः । रघूणां मध्ये यः कश्चनकः । अपवादो विशेषशास्त्रमुत्सर्ग सामान्यशास्त्रमिव । परं शत्रु व्यावर्तयितुं बाधितुमीश्वरः समर्थः अतः शत्रुघ्नमेवादिदेशेति पूर्वेणान्वयः॥
अन्वयः-हि परन्तपः रघूणाम् यः कश्चनः एकः अपवादः उत्सर्गम् इव परं व्यावर्तयितुम् ईश्वरः इति शत्रुघ्नमादिदेश।
व्याख्या--हि = यस्मात् परान् = शत्रून् तापयतीति परन्तपः = रघूणां मध्ये = रघुवंशीयानां मध्ये यः कश्चन = यः कोपि ऐकः = केवलः अपवादः = बाधकः,-विशेषशास्त्रम् उत्सर्ग = सामान्यशास्त्रम् इव = यथा परं = शत्रु व्यावर्तयितुं = बाधितुं, हन्तुमित्यर्थः ईश्वरः =समर्थः । अतः लवणासुरं हन्तुं शत्रुघ्नमेव आदिष्टवानित्यर्थः । अतो रामः स्वयं न गतः । इति पूर्वेणान्वयः ।
हिन्दी-शत्रुओं का दमन करने वाला, रघुवंशियों में कोई भी एक व्यक्ति उसी प्रकार शत्रु का बाध ( वध ) करने में समर्थ है। जिस प्रकार व्याकरण शास्त्र में अपवाद ( बाधक) सूत्र उत्सर्ग ( सामान्य ) सूत्र को बाध लेता है। और सामान्य विधि ( मा हिंस्यात् सर्वा भूतानि ) को जैसे विशेष विधि ( अग्निष्टोमीयं पशुमालमेत ) से बाध होता है । इसीलिये शत्रुघ्न को ही मेजा गया, और स्वयं रामजी नहीं गये ॥ ७ ॥
अग्रजेन प्रयुक्ताशीस्ततो दाशरथी रथी।
ययो वनस्थलीः पश्यन्पुष्पिताः सुरभीरमीः ॥ ८ ॥ ततोऽग्रजेन रामेण प्रयुक्ताशीर्वादो रथी रथिकोऽभीनिंभोंको दाशरथिः पुष्पाणि संजातानि यासां ताः पुष्पिताः सुरभीरामोदमाना वनस्थलीः पश्यन्ययौ ॥
अन्वयः-ततः अग्रजेन प्रयुक्ताशीः रथी अभीः दाशरथिः, पुष्पिताः सुरभीः बनस्थलीः . पश्यन् ययौ।
व्याख्या-ततः = आदेशानन्तरम् अग्रे जातः अग्रजस्तेन अग्रजेन = ज्येष्ठेन रामेण प्रयुक्ताः = कृताः दत्ता इत्यर्थः आशीः = शुभाशंसा यस्मै स प्रयुक्ताशोः रथोऽस्यातीति रथीरथवान् न विद्यते भीः = भीतिः यस्य सोऽभीः = निकः दशरथस्य राज्ञोऽपत्यं पुमान् दाशरथिः = शत्रुघ्नः पुष्पाणि संजातानि यासां ताः पुष्पिता:= कुसुमिताः सुष्ठः रमन्ते यासु ताः सुरभयस्ताः सुरभीः = आमोदमानाः वनानाम् = काननानां स्थल्यः = अकृत्रिमा भूमयरताः वनस्थलीः पश्यन् = अवलोकयन् ययौ = जगाम ।
समासः-प्रयुक्ता आशीः यस्मै स प्रयुक्ताशीः। न भीः यस्य सः अभीः। वनानां स्थल्य स्ताः वनस्थलीः।