________________
रघुवंशे
अन्वयः - ते रामाय विबुधद्विषः वधोपायम् आचख्युः । लवणः शूली दुर्जयः किन्तु विशूल: प्रार्थ्यताम्, इति ।
२५४
व्याख्या - ते = मुनयः रामाय = राघवाय विशिष्टः बुधः = ज्ञानं येषां ते विबुधाः विशेषेण बुध्यन्ते इति वा विबुधाः । विबुधानां देवानां द्विट् = शत्रुस्तस्य विबुधद्विषः = लवणासुररय वधस्य = मारणस्य उपायः = युक्तिः तं वधोपायम् आचख्युः = कथयामासुः । लुनातीति लवणः = एतन्नामासुरः शूलम् = आयुधविशेषः अस्यास्तीति शूली = शूलवान् दुःखेन जयः इति, दुर्जयः = अजय्यः, जेतुमशक्यः, किन्तु विगतः शूलः यस्य सः विशूल: = शूलरहितः प्रार्थ्यताम् = अभिगम्यताम् । “याच्ञायामभियाने च प्रार्थना कथ्यते बुधै ” इति केशवः । अतः यदा स शूलरहितः स्यात्तदा योद्धव्यः इत्यर्थः ।
समासः - वधस्य उपायः वधोपायस्तं वधोपायम् । विबुधानां द्विट् तस्य विबुधद्विषः । विगतः शूलो यस्य स विशूलः ।
हिन्दी - उन मुनियों ने देवताओं के शत्रु लवणासुर के मारने का उपाय राम को बता दिया कि वह असुर यदि भाला हाथ में लिये रहेगा तो उसे जीतना बड़ा कठिन है । अतः जब वह शूल से रहित हो तब उस पर आक्रमण करना ॥ ५ ॥
आदिदेशाथ शत्रुघ्नं तेषां क्षेमाय राघवः ।
करिष्यन्निव नामास्य यथार्थमरिनिग्रहात् ॥ ६ ॥
अथ तेषां मुनीनां क्षेमाय क्षेमकरणाय राघवो रामः शत्रुघ्नमादिदेश । अत्रोत्प्रक्षते - अस्य शत्रुघ्नस्य नामारिनिग्रहाच्छत्रुहननाद्धेतोः । यथाभूतोऽथों यस्य तद्यथार्थं करिष्यन्निन । शत्रुह न्तीति शत्रुघ्नः। ‘अमनुष्यकर्तृके च' इति चकारात्कृतघ्नशत्रुघ्नादयः सिद्धा इति दुर्गसिंहः । पाणिनीयेऽपि बहुलग्रहणाद्यथेष्टसिद्धिः 'कृत्यल्युटो बहुलम्' इति ॥
अन्वयः - अथ तेषां क्षेमाय राघवः शत्रुघ्नम् अस्य नाम अरिनिग्रहात् हेतोः यथार्थं करिष्यन् आदिदेश ।
>
व्याख्या - अथ = मुनिवाक्यश्रवणानन्तरम् तेषां मुनीनां = तपस्विनां क्षेमाय = कल्याणकरणाय राघवः = रामः शत्रून् हन्तीति शत्रुघ्नस्तं शत्रुघ्नं = लक्ष्मणानुजम् तस्य = • शत्रुघ्नस्य अरेः = शत्रोः निग्रहः = दमनं, मारणमित्यर्थः, इति अरिनिग्रहस्तस्मात् अरिनिग्रहात् हेतोः यथा = यथाभूतः, सत्यः अर्थः = अभिधेयः यस्य तत् यथार्थं तत् करिष्यन् = विधास्यन् इव = उत्प्रेक्षायाम् आदिदेश = आदिष्टवान् ।
: - यथा भूतः अर्थः यस्य तत् यथार्थं तत् ।
हिन्दी -मुनियों की बात सुनने के पश्चात् राम ने उन तपस्वियों के कल्याण के लिये शत्रुघ्न को आज्ञा दी मानों शत्रुघ्न के हाथों शत्रु का वध कराकर इसके नाम को यथार्थ, सत्य कराना चाहते हों । अतः शत्रुघ्न को ही आदेश दिया गया ॥ ६ ॥
समासः