________________
पञ्चदशः सर्गः
१आरण्यकं गृहस्थानं श्वशुरौ पद्रजःकणाः ।
स्वयमौद्राहिकं गेहं तस्मै रामाय ते नमः ॥ कृतसीतापरित्यागः स रत्नाकरमेखलाम् ।
बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् ॥ १ ॥ कृतसीतापरित्यागः स पृथिवीपालो रामो रत्नाकर एव मेखला यस्यास्ताम् । सार्णवामित्यर्थः। केवलाम् । एकामित्यर्थः। पृथिवीमेव बुगुजे भुक्तवान् । न तु पार्थिवीमित्यर्थः । सापि रत्नखचितमेखला । पृथिव्याः कान्तासमाधिय॑ज्यते । रामस्य स्त्र्यन्तरपरिग्रहो नास्तीति श्लोकाभिप्रायः ॥
अन्वयः--कृतसीतापरित्यागः सः पृथिवीपालः रत्नाकरमेखलां केवलां पृथिवीम् एव बुभुजे ।
व्याख्या कृतः = विहितः सीतायाः =जानक्याः परित्यागः = गृहान्निरसनं येन स कृतसीतापरित्यागः सः= प्रसिद्धः पृथिवीं = महीं पालयति = रक्षतीति पृथिवीपालः = राजा रत्नानामाकरः रत्नाकरः = समुद्रः एव मेखला = रशना यस्याः सा तां रत्नाकरमेखला, ( मेख = गतिं लातीति मेखला) ससमुद्रामित्यर्थः। केवलाम् =ए काम् पृथिवीं = धरणीम् एव बुभुजेभुक्तवान् , न तु पार्थिवीं पृथिवीसंबन्धिनीमपरां स्त्रियं भुक्तवानित्यर्थः ।
समासः कृतः सोतायाः परित्यागो येन स कृतसीतापरित्यागः । रत्नानामाकरः इति रत्नाकरः एव मेखला यस्याः सा रत्नाकरमेखला तां रत्नाक रमेखलाम् । पृथिव्याः पालः पृथिवीपालः ।
हिन्दी सीता का परित्याग करके पृथिवी का पालन ( रक्षा ) करने वाले राजा राम ने समुद्रसहित एकमात्र पृथिवी को ही भोगा था। अर्थात् किसी दूसरी पार्थिवशरीर वाली स्त्री से विवाह नहीं किया ॥१॥
१ एतत्पद्यप्रणयना वसरे मल्लिनाथस्वान्ते प्रभोरहल योद्धारलीलाविर्वभूवेत्यनुमीयते तथा चआरण्यकमरण्यं यस्य गृहस्थानमासीत् । यस्य पद्रजःकणाः पादपांसवः शृशुरावभूताम् शिलाभूताहल्याया मानषीत्वसंपादनेन गौतमाय दानाद्रामपादरजःकणानां श्वाशुर्य सुवचम् । एतादृशगौतमाहल्यामयोगलक्षणे पुनरुद्वाहे औदाहिकं गेहं विवाहमण्डपवेद्यादि च यः स्वयमेव बभूव । दृष्टं च शास्त्रे चिरपातित्योन्मुक्तस्य पुनरुपनयनोद्वाहादि । तस्मै रामाय नमोस्त्विति कथंचिल्लापनीयमिदं पद्यम् । यद्यपि 'यद्रजःकणाः' इति पाठः सर्वत्रोपलभ्यते तथाप्यत्र यत्तदोदूरान्वयेन दुरूहत्वादस्माभिः 'पद्रजःकणाः' इत्ययमेव पाठ आदृतोऽस्ति ।