________________
चतुर्दशः सर्गः
२४९ अन्वयः-धीमान् वर्णाश्रमावेक्षणजागरूकः रजोरिक्तमनाः सः स्वयम् एव शोकं निगृहा भ्रातृसाधारणभोगं ऋद्धं राज्यं शशास । __ व्याख्या-धीः = बुद्धिरस्यास्तीति धीमान् = बुद्धिमान् वर्णाः = ब्राह्मणादयः आश्रमाः = ब्रह्मचर्यादयश्चति वर्णाश्रमास्तेषाम् अवेक्षणम् = अवलोकनम् , अनुसन्धानमित्यर्थः । तस्मिन् जागरूकः = जागरणशीलः, अप्रमत्तः इति वर्णाश्रमावेक्षणजागरूकः रजसा = रजोगुणेन रिक्त = शून्यं मनः =चिलं यस्य स रजोरिक्तमनाः सः = रामः स्वयम् = आत्मना एव शोक = शुचं निगृह्य = निरुध्य साधारणः- सामान्यः भोगः = सुखादिः, इति साधारणभोगः । भ्रातृभिः = अनुजैः साधारणभोगः = शरीरस्थितिमात्रोपयुक्तः यस्मिन् तत् भ्रातृसाधारणभोगं तत्, ऋद्धं = समृद्धं राज्यं = राष्ट्र शशास = शासितवान् पालयामास ।
समासः-वर्णाश्व आश्रमाश्च वर्णाश्रमास्तेषाम् अवेक्षणं तस्मिन् जागरूकः इति वर्णाश्रमावेक्षणजागरूकः । रजसा रिक्तं मनः यस्य स रजोरिक्तमनाः। भ्रातृभिः साधारणः भोगः यस्मिन् तत् भ्रातृसाधारणभोगम्।
हिन्दी-वर्णाश्रम धर्म की देखभाल (रक्षा) करने में सावधान और जिनके मन में रजोगुण विकार नहीं है ऐसे राम ने स्वय सांसारिक शोक मोह को रोक कर ( त्यागकर ) अपने भाइयों के साथ समानरूप से समृद्धिशाली राज्य का भोग और शासन किया ॥ ८५ ॥
तामेकभार्या परिवादभीरोः साध्वीमपि त्यक्तवतो नृपस्य ।
वक्षस्यसंघट्टसुखं वसन्ती रेजे सपत्नीरहितेव लक्ष्मीः ॥ ८६ ॥ परिवादभीरोनिन्दाभीरोरत एवैकभार्यामपि साध्वीमपि तां सीतां त्यक्तवतो नृपस्य वक्षस्यसंघट्टसुखससंभाव्यसुखं वसन्ती लक्ष्मीः सपत्नीरहितेव रेजे दिदीपे। तस्य स्यन्तरपरिग्रहो नाभूदिति भावः ।।
अन्वयः---परिवादभीरोः एकभार्याम् अपि साध्वीम् अपि तां त्यक्तवतः नृपन्य वक्षसि असंघट्टसुखं वसन्ती लक्ष्मीः सपत्नीरहिता इव रेजे। ___ व्याख्या-परिवादात् = लोकापवादात्, निन्दायाः इत्यर्थः । भीरुः = भयशीलस्तस्य परिवादभीरोः अत एव एका = अद्वितीया चासौ भार्या = पत्नी ताम् एकमायामपि साध्वीम् == पतिव्रतामपि तां = सीतां त्यक्तवतः = विसृष्टवतः नपरय = राशो रामचन्द्रस्य वक्षसि = हृदये नास्ति संघट्टः = स्पर्धा यस्मिन् तत् असंघटुं तच्च तत्सुखं यस्मिन् तत् यथा स्यात्तथा कल्पनातीतसुखमित्यर्थः वसन्ती = निवसन्ती लक्ष्मीः = श्रीदेवी समानः पति यस्याः सा सपत्नी, सपन्या रहिता = शून्या इति सपनीरहिता इव = यथा रेजे = शुशुभे।
समासः-परिवादात् भीरुः इति परिवादभीरुस्तरय परिवादभीरोः। न संघट्टः यस्मिन् तत् असंघर्ट सुखं यस्मिन् कर्मणि तत् असंघट्टसुखम् । सपत्न्या रहिता इति सपलीरहिता।
हिन्दी-झूठी लोकनिन्दा से डरने वाले, और इसीलिये एकमात्रपत्नी, पतिव्रता सीता का त्याग करने वाले राजा राम के हृदय में बिना किसी स्पर्धा के ( बेरोकटोक ) सुखपूर्वक निवास करती हुई राजलक्ष्मी ही मानों बिना सौत के दीप्त हो (चमक ) उठी हो, ऐसी प्रतीत हो रही थी । अर्थात् राम ने दूसरा विवाह नहीं किया था ॥ ८६ ॥