________________
२४८
रघुवंशे
हिन्दी-राजा राम अब भी पछताते हैं क्या ? यह जानने के लिये उत्सुक, इन्द्रजित् मेघनाद को मारने वाले लक्ष्मण ने भी अयोध्या पहुँचकर सीता ने रो-रो कर जो सन्देश दिया था, वहाँ तक सब बड़े भाई राम से कह दिया कि प्रभु की आज्ञा का पालन किया ॥ ३ ॥
बभूव रामः सहसा सबाष्पस्तुषारवर्षीव सहस्यचन्द्रः। • कौलीनमीतेन गृहानिरस्ता न तेन वैदेहसुता मनस्तः ॥ ८४ ॥
सहसा सपदि सबाष्पो रामः। तुषारवर्षों सहस्यचन्द्र इव बभूव । अत्यश्रुतया तुषारवर्षिणा पौषचन्द्रेण तुल्योऽभूत् । 'पौषे तैषसहस्यौ द्वौ' इत्यमरः। युक्तं चैतदित्याह—कौलीनाल्लो. कापवादागीतेन तेन रामेण वैदेहसुता सीता गृहानिरस्ता। मनस्तो मनसश्चित्तान्न निरस्ता । पञ्चम्यास्तसिल्॥
अन्वयः-सहसा सबाष्पः रामः तुषारवर्षी सहस्यचन्द्र इव बभूव । कौलीनभीतेन तेन वैदेहसुता गृहात् निरस्ता, मनस्तः न निरस्ता।
व्याख्या-सहसा= झटिति, लक्ष्मणवाक्यश्रवणसमनन्तरमेवेत्यर्थः । बास्पैः = अश्रुभिः सह वर्तमानः सबाष्पः रामः = दाशरथिः तुषारं = हिमं वर्षति तच्छीलः इति तुषारवर्षी, सहसि = बले साधुः सहस्यः = पौषमासः तस्य चन्द्रः = इन्दुः इति सहस्यचन्द्रः इव = यथा बभूव = जातः, अत्यधिकाश्रुपातनेन तुषारवर्षिणा पौषमासचन्द्रण समानोऽभूत् । “पौष तैषसहस्यौ द्वौ" इत्यमरः । उचितश्चैतत् कुलीनस्य भावः कर्म वा कौलीनं, कौलीनात् = लोकापवादात् भीतः = वस्तस्तेन कौलीनभीतेन तेन =रामेण वैदेहस्य = जनकस्य सुता = पुत्री, इति वैदेहसुता =जानकी गृहात् = भवनात् निरस्ता = संत्यक्ता, मनसः इति मनस्तः = मनसः, चित्तात् न = नहि निरस्ता= निष्कासिता। लोकनिन्दाभीतेन रामेण सीता गृहात् निष्कासिता, हृदयात्तु नैवेति अश्रुवर्षणं युक्तमेवेत्यर्थः।
समासः-बाष्पैः सहितः सबाष्पः । तुषारस्य वर्षों तुषारवर्षी । सहस्यस्य चन्द्रः सहस्यचन्द्रः । कोलीनात् भीतः कौलीनभीतस्तेन कौलीनभीतेन । वैदेहस्य सुता, इति वैदेहसुता।
हिन्दी-लक्ष्मण से सीता का सन्देश सुनते ही आँसुओं से भरे राम, पाला, ओस वर्षाने वाले पौषमास के चन्द्रमा के समान आँसू बहाने लगे। ठीक ही है। क्योंकि लोकमिन्दा के डर से राम ने सीता को घर से निकाला था। किन्तु हृदय से नहीं निकाला था। अतः सीता का सन्देश सुनकर उनका आँसू बहाना उचित ही है ॥ ८४ ॥
निगृह्य शोकं स्वयमेव धीमान्वर्णाश्रमावेक्षणजागरूकः ।
स भ्रातृसाधारणमोगमृद्ध राज्यं रजोरिक्तमनाः शशास ॥ ५ ॥ धीमान्वर्णानामाश्रमाणां चावेक्षणेऽनुसंधाने जागरूकोऽप्रमत्तः । 'जागतेंरूकः' इत्यूकप्रत्ययः । रजोरिक्तमना रजोगुणशून्यचेताः स रामः स्वयमेव शोकं निगृह्य निरुध्य भ्रातृभिः साधारणभोगम् । शरीरस्थितिमात्रोपयुक्तमित्यर्थः । ऋद्धं राज्यं शशास ॥