________________
२०१
चतुर्दशः सर्गः सुहृदो भावः सौहार्द सौजन्यम् । 'हृद्भगसिन्धवन्ते पूर्वपदस्य-' इत्युभयपदवृद्धिः। सौहार्दनिधी रामः सुहृद्भय : सुग्रीवादिभ्यः परिबर्हवन्त्युपकरणवन्ति वेश्मानि विश्राण्य दत्त्वा । आलेख्यशेषस्य चित्रमात्रशेषस्य पितुर्बलिमत्पूजायुक्तं निकेतं गृहं बाप्पायमाणः बाष्पमुद्रमन्विवेश । 'बाप्पोष्मभ्यामुद्वमने' क्यङ्प्रत्ययः॥ .
अन्वयः--सौहार्दनिधिः रामः सुहृद्भ्यः परिबर्हवन्ति वेश्मानि विश्राण्य आलेख्यशेषस्य पितुः बलिमत् निकेतं बाष्पायमाणः सन् विवेश । ___ व्याख्या-शोभनं हृदयं यस्य स, सुहृदो भावः सौहार्द, सौहार्दस्य = सौजन्यस्य निधिः = आकरः इति सौहार्दनिधिः रामः = दाशरथिः सुहृद्भ्यः = मित्रेभ्यः, सुग्रीवविभीषणादिभ्यः इत्यर्थः । परिवर्हते, परिवते वा परिबर्हः राजाहवस्तु अस्ति येषु तानि परिबर्हवन्ति = राजयोग्योपकरणवन्ति “परिबर्हस्तु राजाहवस्तुन्यपि परिच्छदे” इति विश्वः । विशन्ति = प्रविशन्ति जनाः येषु तानि वेश्मानि = गृहाणि विश्राण्य = दत्वा आलेख्यं = चित्रं शेषम् = अवशिष्टं यस्य स तस्य आलेख्यशेषस्य मृतस्येत्यर्थः पितुः=जनकस्य बलिः = पूजा अस्ति यस्य तत् बलिमत् निकेतं = गृहं बाष्पम् उद्वमति बाष्पायते, बाष्पायते इति बाष्पायमाणः -- अश्रूणि मुञ्चन् सन् विवेश प्रविष्टः।
समासः-सौहार्दस्य निधिरिति सौहार्दनिधिः। आलेख्यं शेषं यस्य स तस्य आलेख्यशेषस्य ।
हिन्दी-सौजन्य ( सज्जनता ) की खान राम ने, अपने मित्र सुग्रीव विभीषण को राजयोग्य सारी सामग्रो से सजे हुए भवनों में ठहराकर, फिर चित्र ( तस्वीर ) मात्र ही जिनका अवशेष है ऐसे अपने पिता के पूजा युक्त घर में आँसू गिराते हुए प्रवेश किया ॥ १५ ॥
कृताञ्जलिस्तत्र यदम्ब सत्यान्नाभ्रश्यत स्वर्गफलाद् गुरुनः ।
तच्चिन्त्यमानं सुकृतं तवेति जहार लजां भरतस्य मातुः ॥ १६ ॥ तत्र निकेतने कृताञ्जलिः सन्रामः । हे अम्ब, नो गुरुः पिता स्वर्गः फलं यस्य तस्मात्सत्यान्नाभ्रश्यत न भ्रष्टवानिति यदभ्रंशनं तच्चिन्त्यमानं विचार्यमाणं तव सुकृतम् । इत्येवं प्रकारेण भरतस्य मातुः कैकेय्या लज्जां जहारापानयत् । राज्ञां प्रतिज्ञापरिपालनं स्वर्गसाधनमित्यर्थः । भरतग्रहणं तदपेक्षयापि कैकेय्यनुसरणद्योतनाथम् ।। ___ अन्वयः-तत्र कृताञ्जलिः सन् हे अम्ब ! नः गुरुः स्वर्गफलात् सत्यात् न अभ्रश्यत यत् तत् चिन्त्यमानं तव सुकृतम् इति भरतस्य मातुः लज्जां जहार ।।
व्याख्या-तत्र = तस्मिन् पितुः गृहे कृतः= विहितः, बद्धः अञ्जलिः = करसम्पुटः येन स कृताञ्जलिः सन् रामः हे अम्ब =हे मातः ! नः = अस्माकं गुरुः = पिता सुष्टु अयंत इति स्वर्गः । स्वर्गः= देवलोकः फलं यस्य तत् स्वर्गफलं तस्मात् स्वर्गफलात् सति साधु सत्यं तस्मात् सत्यात् = तथ्यात् न अभ्रश्यत =न पतितः इति यत्-अभ्रंशनं तत् चिन्त्यते इति चिन्त्यमानं =