________________
२००
रघुवंशे दृश्याः = द्रष्टुं योग्याः बन्धाः= अअलिपुटाः येषां तैः प्रासादवातायनदृश्यबन्धैः अञ्जलिभिः= करसंपुटैः “अञ्जलिस्तु पुमान् हरतसम्पुटे कुडवेऽपि च" इति मेदिनी। प्रणेमुः= प्रणामं चक्रुः । भवनवातायनस्थिता एव नार्यः मनुष्यवाह्ययानस्थितां सीताम् हस्तौ सम्पुटीकृत्य प्रणाम चक्रुरित्यर्थः।
समासः-श्वश्रूजनैः अनुष्ठितः चारः वेषः यस्याः सा तां श्वश्रूजनानुष्ठितचारुवेषाम् । रघूणां वीरः रघुवीरस्तरय पत्नी तां रघुवीरपत्नीम् । साकेतस्य नार्यः साकेतनार्यः । प्रासादानां वातायनानि प्रासादवातायनानि, तेषु दृश्याः बन्धाः येषां ते तेः प्रासादवातायनदृश्यबन्धैः।
हिन्दी--सास कौसल्या और सुमित्रा से वस्त्रालंकार से अच्छी प्रकार सजाई गई, तथा पाटकी में बैठी हुई, रघुवीर श्रीराम की पत्नी सीता को अयोध्या की नारियों ने हाथ जोड़ कर प्रणाम किया, ( जिनका हाथ जोड़ना ) भवनों के झरोखों से दीख पड़ रहा था ॥ १३ ॥
स्फुरत्प्रभामण्डलमानसूयं सा बिम्रती शाश्वतमगरागम् ।
रराज शुद्धति पुनः स्वपुर्यै संदर्शिता वह्निगतेव भर्ना ॥ १४ ॥ स्फुरत्प्रभामण्डलमानसूयमनसूयया दत्तं शाश्वतं सदातनमङ्गरागं बिभ्रती सा सीता भर्ना स्वपुर्यै शुद्धति संदर्शिता पुनर्वह्निगतेव रराज ॥
अन्वयः--स्फुरत्प्रभामण्डलम् आनुसूयं शाश्वतम् अंगरागं बिभ्रती सा भर्ना स्वपुर्यं शुद्धा इति सन्दर्शिता पुनः वह्निगता इव रराज ।
व्याख्या-प्रभायाः कान्तेः मण्डलं =समूहः इति प्रभामण्डलम् । स्फुरत् = देदीप्यमानं प्रभामण्डलं यस्य स तं स्फुरत्प्रभामण्डलम् अनुसूयायाः अयम् आनुसूयः तम् , अत्रिमहर्षेः पत्न्या दत्तम् शश्वत् भवः शाश्वतः तं सदातनम् अंगरय = शरीरस्य रागः= विलेपनद्रव्यम् , तम् अंगरागम् = बिभ्रती=धारयन्ती सा=सोता बिभर्तीति भर्ता तेन भर्ना=रामेण स्वस्य पुरी स्वपुरी तस्यै स्वपुर्यं = अयोध्याय, साकेतनागरिकेभ्य इत्यर्थः। शुद्धा पवित्रा इति सन्दर्शिता= लोकप्रत्यक्षीकृता पुनः= भूयः, इदानीमेवेत्यर्थः वह्नौ= अग्नौ गता= प्रविष्टा, इति वह्निगता इव = यथा रराज =शुशुमे।
समास:--प्रभायाः मण्डलं प्रभामण्डलं, स्फुरत् प्रभामण्डलं यस्य स तं स्फुरत्प्रभामण्डलम् । अंगस्य रागः अंगरागरतम् अंगरागम् । स्वस्य पुरी स्वपुरी तस्य स्वपुर्यै । वह्नौ गता वह्निगता।
हिन्दी-चमकदार कान्तिवाला तथा कभी न मिटने वाले सती अनसूया के दिये हुए, सुगन्धित लेप ( उबटन ) को धारण किये ( लगाए ) हुए 'सीता जी पवित्र हैं' अपनी प्रजा साकेत निवासियों को इस प्रकार दिखाई गई ऐसी सुशोभित लग रही थी मानो राम ने फिर से उन्हें अग्नि में प्रवेश कराया हो ॥ १४ ॥
वेश्मानि रामः परिबर्हवन्ति विश्राण्य सौहार्दनिधिः सुहृद्भयः । बाष्पायमाणो बलिमन्निकेतमालेख्यशेषस्य पितुर्विवेश ॥ १५ ॥