________________
१९६
रघुवंशे सरित्समद्रान्सरसीश्च गत्वा रक्षःकपीन्द्ररुपपादितानि।
तस्यापतन्मूनिजलानि जिष्णोविन्ध्यस्य मेघप्रभवा इवापः ॥ ८॥ रक्षःकपीन्द्रः सरितो गङ्गाद्याः समुद्रान्पूर्वादोन्सरसीर्मानसादींश्च गत्वा । उपपादितान्युपनीतानि जलानि जिष्णोर्जयशीलस्य । 'ग्लाजिस्थश्च स्नुः' इति गस्नुप्रत्ययः । तस्य रामस्य मूनिं । विन्ध्यस्य विन्ध्याद्रेमुनि मेघप्रभवा आप इव अपतन् ।।
अन्वयः-रक्षःकपीन्द्रैः सरित्समुद्रान् सरसीः च गत्वा उपपादितानि जलानि, जिष्णोः तस्य मूनिं विभ्यस्य मूर्ध्नि मेवप्रभवाः आपः इव अपतन् ।
व्याख्या-रक्षांसि = राक्षसाः च कपयः = वानराश्चेति रक्षःकपयः । रक्षःकपीनाम् इन्द्राः=स्वामिनस्तैः रक्षःकपीन्द्रः सरितः = गंगाद्याः नद्यः समुद्राः सागराश्चेति सरित्समुद्रा. स्तान् सरित्समुद्रान् गत्वा=प्राप्य स्त्रियन्ते इति सरस्यस्ताः सरसीः=मानसरोवरादींश्च गत्वा उपपादितानि = समीपमानीतानि जलानि = तोयानि जयति तच्छील: जिष्णुस्तस्य जिष्णोः= जयशीलस्य तस्य =रामस्य मुह्यति जनोऽस्मिन्नाहते सति मूर्धा तस्मिन् मूर्ति मस्तके वि इध्यते, विरुद्धं ध्यायतीति वा विन्ध्यः विन्ध्यस्य = पर्वतविशेषस्य मूनि मेघेभ्यः प्रभवन्तीति मेघप्रभवाः, मेघेभ्यः प्रभवः= उत्पत्तिः यासां ताः मेघप्रभवा इति वा । मेवोत्पन्नाः आपः =जलानि इव = यथा अपतन् = पेतुः।
समासः-रक्षसां कपीनाञ्च इन्द्र ारतैः रक्षःकपीन्द्रः । मेघाः प्रभवाः यासां ताः मेघप्रभवाः । सरितश्च समुद्राश्च सरित्समुद्रास्तान् सरित्समुद्रान् ।
हिन्दी-राक्षसों और वानरों के नायकों ने नदी तथा समुद्रों और मानसरोवर जाकर जो जल वहाँ से लाकर दिया था, वह पवित्र जल विजयी राम के शिर पर उसी प्रकार बरस रहा था, जिस प्रकार विन्ध्याचल के शिखर पर बादलों का बरसाया हुआ जल गिरता है ॥ ८॥
तपस्विवेषक्रिययापि तावद्यः प्रेक्षणीयः सुतरां बभूव ।
राजेन्द्र नेपथ्यविधानशोमा तस्योदितासीत्पुनरुक्तदोषा ॥ ९ ॥ यो रामस्तपस्विवेषक्रिययापि तपस्विवेषरचनयापि सुतरामत्यन्तं प्रेक्षणीयस्तावद्दर्शनीय एव बभूव । तस्य राजेन्द्रनेपथ्यविधानेन राजवेषरचनयोदिता या शोभा सा पुनरुक्तं नाम दोषो यस्याः सा पुनरुक्तदोषा द्विगुणासीत् ।।
अन्वयः-यः तपस्विवेषक्रियया अपि सुतरां प्रेक्षणीयः बभूव तस्य उदिता, राजेन्द्रनेपथ्यविधानशोभा पुनरुक्तदोषा आसीत् ।
व्याख्या-यः =रामः तपः अस्ति येषां ते तपस्विनः। तपस्विनां = तापसानां वेषः= आकल्पः, नेपथ्यं तस्य क्रिया करणं रचना तया तपस्विवेषक्रियया अपि सुतराम् = अत्यन्तं प्रेक्षितुं योग्यः प्रेक्षणीयः= दर्शनीयः तावत् = एव बभूव =आसीत् तस्य रामस्य उदिता = उत्पन्ना 'या' राशां=भूपालानाम् इन्द्रः =ईश्वरः, इति राजेन्द्रः, राजेन्द्रस्य नेपथ्यं = वेषः तस्य विधान =रचना तेन या शोभा = कान्तिः, इति राजेन्द्रनेपथ्यविधानशोभा सा, पुनः = पुनर्वारं =