________________
चतुर्दशः सर्गः
व्याख्या-ननु वत्से = अयि पुत्रि ! उत्तिष्ठ =उत्थिता भव असौ =रामः अनुजेन = लक्ष्मणेन सहितः सानुजः भर्ता = तव स्वामी तव = भवत्या एव शुचिना = शुद्धन, पवित्रण वृत्तेन= चरित्रेण, पातिव्रत्येनेत्यर्थः महत् = अत्यधिकं कृच्छं = कष्टं, दुःखं तीर्णः = तीर्णवान्, इति = इत्थं प्रियं = हृद्यमहतीति प्रियारे तां प्रियाम् िप्रेमव्यवहारयोग्यमित्यर्थः । तां =सीतां प्रियमपि = मनोहरमपि न मिथ्या अमिथ्या = अमृषा, सत्यं ते = कौसल्यासुमित्रे, श्वनी ऊचतुः= उक्तवत्यौ ।
समासः-अनुजेन सहितः सानुजः । प्रियस्य अर्हा तो प्रियाएम् । न मिथ्या अमिथ्या।
हिन्दी-हे बेटी उठो! यह तुम्हारे पति राम छोटे भाई के सहित तेरे ही शुद्ध पवित्र पातिव्रत्य के प्रताप से इस बड़े संकट से पार हुए हैं। प्यार के योग्य सीता से ऐसी प्रिय तथा सत्य बात, कौसल्या और सुमित्रा ने कही ॥ ६ ॥
अथाभिषेकं रघुवंश केतोः प्रारब्धमानन्दजलैर्जनन्योः । निवर्तयामासुरमात्यवृद्धास्तीहृतैः काञ्चनकुम्भतोयैः ॥ ७ ॥ अथ जनन्योरानन्दजलैरानन्दबाष्पैः प्रारब्धं प्रक्रान्तं रघुवंशकेतो रामस्याभिषेकममात्यवृद्धास्तीथेभ्यो गङ्गाप्रमुखेभ्य आहृतैरानीतैः काञ्चनकुम्भतोयनिवर्तयामासुनिष्पादयामासुः ।।
अन्वयः-अथ जनन्योः आनन्दजलैः प्रारब्धं रघुवंशकेतोः अभिषेकम् अमात्यवृद्धा तीर्थाहृतैः काञ्चनकुम्भतोयैः निवर्तयामासुः ।
व्याख्या-अथ =प्रपामाद्यनन्तरम् जनयति या सा जननी । जननी च जननी चेति जनन्यौ तयोः जनन्योः = मात्रोः= आनन्दात् = हर्षात् जातानि जलानि =अश्रूणि आनन्दजलानिः तैः आनन्दजलेः, आनन्दस्य जलानि, इति वा तैः । प्रारब्धं = प्रक्रान्तं रघूणां वंशः रघुवंशस्तस्य रघुवंशस्य = रघुकुलस्य केतुः = ध्वजः, तस्य रघुवंशकेतोः=रामस्य "गृहभेदे ध्वजे केतुः" इत्यमरः । अभिषिच्यते इति अभिषेकस्तम् अभिषेकं = स्नानम् अमात्येषु = मंत्रिषु ये वृद्धाःवयसा शानेन च विशिष्टाः इति अमात्यवृद्धाः तीर्थेभ्यः= काशीप्रयागादिभ्यः आहृतानि = आनीतानि तैः तीर्थाहृतैः काञ्चते = दीप्यते काञ्चनं, काञ्चनस्य = सुवर्णस्य कुम्भाः कलशास्तेषां तोयानि =जलानि तः काञ्चनकुम्भतोयैः, सुवर्णकलशाहृतजलैरित्यर्थः = निवर्तयामासुः= सम्पादयामासुः। वृद्धाः रामस्य राज्याभिषेकं पवित्रतीर्थजलैः कृतवन्तः, इत्यर्थः ।।
समासः--रघूणां वंशस्य केतुस्तस्य रघुवंशकेतोः। आनन्दस्य जलानि तैः आनन्दजलैः । अमात्येषु वृद्धाः अमात्यवृद्धाः। तीर्थेभ्यः आहृतानि तैः तीर्थाहृतः । काञ्चनस्य कुम्भाः काञ्चनकुम्भास्तेषां तोयानि तैः काञ्चनकुम्भतोयः ।
हिन्दी-इसके बाद माताओं की आँखों में आनन्द से आए हुए आँसुओं से आरम्भ हुए रघुकुल तिलक राम के राज्याभिषेक को पवित्र तीर्थस्थान से, सोने के घड़ों में भरकर लाए हुए जल से बूढ़े मंत्रियों ने सम्पन्न ( पूरा ) किया ॥ ७ ॥