________________
त्रयोदशः सर्गः
मायायाः विकल्पाः = कपटयुक्तयः, संकल्पविशेषा इत्यर्थः, इति मायाविकल्पास्तैः रचिताः= निर्मिताः तैः मायाधिकल्परचितैः अपि तस्य विभीषणस्य इमे तदीयास्तैः तदीयैः स्यन्दनैः रथैः क्रियमा निर्वृत्ता कृत्रिमा तुलिता=तुलनां नीता. उपमिता कृत्रिमा=अस्वाभाविकी कल्पिता भक्तीनाम् =अलंकृतीनां शोभा सौन्दर्य येषां ते तुलितकृत्रिमभक्तिशोभाः न भवन्तीति शेषः ।
समास:-अनुप्लवेन सह वर्तते इति सानुप्लवः । दशरथः प्रभवः यस्य स दशरथप्रभवः, तेन अनुशिष्टः, इति दशरथप्रभवानुशिष्टः । मायाया विकल्पाः मायाविकल्पास्तैः रचितास्तैः मायाविकल्परचितैः । भक्तीनां शोभा भक्तिशोभा। दुलिता कृत्रिमा भक्तिशोभा येषां ते तुलितकृत्रिमभक्तिशोभाः।
हिन्दी-राक्षसों का राजा विभीषण भी अपने साथियों के साथ दशरथपुत्र राम की आशा पाकर रथों में बैठ गए। मनुष्यों के बनाए हुए जिन रथों की शोभा की बराबरी राक्षसों की माया से बनाए हुए, भी विभीषण के रथ नहीं कर सके थे। अर्थात् मनुष्य निर्मित इन रथों को सुन्दरता विभीषण के रथों से कहीं अधिक थी।। ७५ ।।
भूयस्ततो रघुपतिर्विलसत्पताक
मध्यास्त कामगति सावरजो विमानम् । दोषातनं बुधबृहस्पतियोगदृश्य
स्तारापतिस्तरलविद्यदिवाभ्रवृन्दम् ॥ ७६ ।। ततो रघुपतिः सावरजो भरतलक्ष्मणसहितः सन् विलसत्पताकं कामेनेच्छानुसारेण गतिर्यस्य तद्विमानं भूयः पुनरपि । बुधबृहस्पतिभ्यां योगेन दृश्यो दर्शनीयस्तारापतिश्चन्द्रो दोषाभवं दोषातनम् । 'सायंचिरंपाढे-' इत्यादिना दोषाशब्दादव्ययाट्टयुप्रत्ययः । तरलविद्युच्चलत्तडिदभ्रवृन्दमिव । अध्यास्ताधिष्ठितवान् ।।
अन्वयः-ततः रघुपतिः सावरजः विलसत्पताकं कामगति विमानं भूयः बुधबृहस्पतियोगदृश्यः तारापतिः दोषातनं तरलविद्युत् अभ्रवृन्दम् इव अध्यास्त ।
व्याख्या-ततः सर्वेषां रथारोहणानन्तरम् रघूणां पतिः रघुपतिः रामः अवरस्मिन् काले जाता: अवरजाः, तैः सह सावरजः=अनुजैः सहितः सन् विलसन्त्यः=शोभमानाः पताकाः ध्वजाः यस्मिन् तत् विलसत्पताकं कामेन इच्छानुसारेण गतिः= गमनं यस्य तत् कामगति विमानं पुष्पकम् भूयः= पुनरपि बृहतां==देवानां पतिः बृहस्पतिः-सुराचार्यः । बुध्यते इति बुधः सौम्यश्च बृहस्पतिः=देवगुरुश्चेति बुधबृहस्पती ताभ्यां योगः=सम्बन्धः, इति बुधबृहस्पतियोगः, तेन दृश्यः=दर्शनीयः, इति बुधबृहस्पतियोगदृश्यः, ताराणां नक्षत्राणां पतिः स्वामी तारापतिः=चन्द्रः दोषा=रात्रौ भवं दोषातनं तरलाः=चञ्चलाः विद्युतः= तडितः यस्मिन् तत् तरलविद्युत् , अभ्राणां मेघानां, वृन्दं समूहस्तत् अभ्रवृन्दम् इव= यथा अध्यास्त आरुरोह, अधिष्ठितवान् ।