________________
१८६
रघुवंशे
परित्यज्य मनुष्याकृतिं कृत्वेत्यर्थः । गजानां हस्तिना। इन्द्रास्तान् गजेन्द्रान् = महागजान् आरुरुहुः=अधिष्ठितवन्तः। बहुप्रकारं बहुधा अनेकप्रकारेण मदस्य=दानस्य वारि = जलं तस्य धाराः=संपाताः, इति मदवारिधाराः ताः मदजलवृष्टिरित्यर्थः । “मदो दानम्" इत्यमरः। क्षरत्सुवर्षत्सु तेषु =गजेन्द्रेषु ते = वानरसेनापतयः शैलानां पर्वतानाम् अधिरोहणम् =आरोहणं तत्र यानि सुखानि आनन्दाः, इति शैलाधिरोहणसुखानि,तानि उपलेभिरे = प्राप्तवन्तः । मदजलवर्षणं कुर्वतः = गजान् आरोहन्तो वानराः निर्झरवतां पर्वतानामारोहणसुखमनुभूतवन्त इत्यर्थः ।
समासः-रामस्य आशा तथा रामाज्ञया। हरीणां चमूः हरिचमूस्तस्याः पतयः हरिचमूपतयः। मनुष्याणां वपुः मनुष्यवपुः तत् मनुष्यवपुः। गजानामिन्द्रास्तान् गजेन्द्रान् । मदस्य वारि मदवारि तस्य धाराः ताः मदवारिधाराः। शैलानाम् अधिरोहणं शैलाधिरोहणं तस्मिन् सुखानि तानि शैलाधिरोहणसुखानि ।
हिन्दी-उस समय रामचन्द्रजी की आज्ञा से बन्दर-भालुओं के सेनापति, मनुष्यों का शरीर धारण करके उन हाथियों पर चढ़ गये। और अनेक प्रकार से मदजल को धारा बहाने वाले हाथियों पर चढ़ते समय वानरों ने झरनों वाले पर्वतों पर चढ़ने के सुखों को प्राप्त किया ।।७४॥
सानुप्लवः प्रभुरपि क्षणदाचराणां
भेजे रथान्दशरथप्रभवानुशिष्टः। मायाविकल्परचितैरपि ये तीय
र्न स्यन्दनैस्तुलितकृत्रिममक्तिशोभाः ॥ ७५ ।। सानुप्लवः सानुगः। 'अभिसारस्वनुसरः सहायोऽनुप्लवोऽनुगः।' इति यादवः। क्षणदाचराणां प्रभुर्विभीषणोऽपि प्रभवत्यस्मादिति प्रभवो जनकः। दशरथः प्रभवो यस्य स दशरथप्रभवो रामः। तेनानुशिष्ट आज्ञप्तः सन् ‘रथान्भेजे । तानेव विशिनष्टि-ये रथा मायाविकल्परचितैः संक पविशेषनिर्मितैरपि तदीयविभीषणीयैः स्यन्दनै रथैस्तुलितकृत्रिमभक्तिशोभास्तुलिता समीकृता कृत्रिमा क्रियया निर्वृत्ता भक्तीनां शोभा येषां ते तथोक्ता न भवन्ति । तेऽपि त साम्यं न लभन्त इत्यर्थः । कृत्रिमेत्यत्र 'ड्वितः त्रिः' इति स्त्रिप्रत्ययः । 'क्रेमम्नित्यम्' इति ममागमः ।। __अन्वयः–सानुप्लवः क्षणदाचराणां प्रभुः अपि दशरथप्रभवानुशिष्टः सन् रथान् भेजे, ये मायाविकल्परचितैः अपि तदीयैः स्यन्दनैः तुलितकृत्रिमभक्तिशोभाः न भवन्तीति शेषः ।
व्याख्या--अनु=पश्चात् प्लवते = गच्छतीति अनुप्लवः । अनुप्लवेन = अनुगेन सह सानुप्लवः =सहचरसहितः "अनुप्लवः सहायश्चानुचरोऽभिसरः" इत्यमरः । क्षणम् =उत्सवं निर्व्यापारस्थितिं वा ददति इति क्षणदाः । क्षणदासु = रात्रिषु चरन्तीति क्षणदाचरास्तेषां क्षणदाचराणां निशाचराणाम् प्रभुः=स्वामी, विभीषणोऽपि, प्रभवत्यस्मादिति प्रभवः । दशरथः प्रभवः=जनकः यस्य स दशरथप्रभवः रामः तेन अनुशिष्टः=आज्ञप्तः, इति दशरथ प्रभवानुशिष्टः रामाशप्तः सन् रथान् = स्यन्दनान् भेजे=सिंषेवे । रथानेव विशिनष्टि-ये रथाः