________________
१६२
रघुवंशे
मेजी गई अप्सराओं की वे शृंगारचेष्टाएँ ( हाव, भाव, चटक, मटक ) भी, तपस्या से डिगाने के लिए समर्थ न हो सकी थीं, जिनमें हँसकर तिरछी नजर चलाई गई थी, तथा नाच-गाने के बहाने से अपनी करधनी जरा-जरा दिखा दी थी। अर्थात् नितम्ब और जाँचे उघाड़ कर दिखा दी थीं ॥ ४२ ॥
एषोऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावम् ।
सभाजने मे भुजमूर्ध्वबाहुः सव्येतरं प्राध्वमितः प्रयुङ्क्ते ॥ ४३ ॥ ऊर्ध्वबाहुरेष सुतीक्ष्णोऽक्षमालैव वलयं यस्य तं मृगाणां कण्डूयितारम् । कुशा एव सूचयस्ता लनातीति कुशसूचिलावस्तम् । 'कर्मण्यण' इत्यण् । 'एभिर्विशेषणैर्जपशीलत्वं भूतदया कर्मक्षमत्वं च द्योत्यते। सव्यादितरं दक्षिणं भुजं मे मम सभाजने संमाननिमित्ते। 'निमित्ता
कर्मयोगे' इति सप्तमी। इतः प्राध्वं प्रकृतानुकूलबन्धं प्रयुङ्क्ते। 'आनुकूल्यार्थकं प्राध्वम्' इत्यमरः । अव्ययं चैतत् ॥
अन्वयः-ऊर्ध्वबाहुः एषः अक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावम् सव्येतरं भुजं मे सभाजने इतः प्राध्वं प्रयुङ्क्ते ।
व्याख्या-ऊर्ध्वम् = उपरि बाहू = भुजौ यस्य सः ऊर्ध्वबाहुः एषः =सुतीक्ष्णः, माति = मानहेतुर्भवतीति मां = शोभां लातीति वा माला। अक्षाणां = रुद्राक्षाणां मालामाल्यमिति अक्षमाला । अक्षमाला एव वलयः कङ्कणं यस्य स तम् अक्षमालावलयम् , मृग्यन्ते = अन्विष्यन्ते व्याधैस्ते मृगाः। मृगाणां= हरिणानां कण्डूयितारं = विघर्षकं कुशाः=दर्भाः एव सूचयः= व्यधन्यः, ताः लुनाति = छिनत्ति इति कुशसूचिलावस्तं कुशसूचिलावं "स्त्रीसूचि नृत्यमेदे व्यधनी शिरव्ययोरपि" इति रत्नकोषः। सव्यात् इतरस्तं, सव्येतरं = दक्षिणं भुजं = बाहुं मे=मम रामस्य सभाजने सम्माने स्वागतकरणायेत्यर्थः । इतः = मत्संमुखे प्रगतः अध्वानं प्राध्वरतं प्राध्वम् = प्रकृतानुकूलबन्धं प्रयुङ्क्ते = प्रेरियति । “आनुकूल्यार्थक प्राध्वम्" इत्यमरः।
समास:-ऊर्ध्व बाहू यस्य सः ऊर्ध्वबाहुः । अक्षाणां माला एव वलयः यस्य स तम् अक्षमालावलयम् । कुशाः एव सूचयस्तासां लावस्तं कुशसूचिलावम् । सव्यात् इतरः सव्येतरस्तं सव्येतरम् । प्रगतः अध्वानमिति प्राध्वस्तं प्राध्वम् ।
हिन्दी-देखो ! ऊपर को हाथ उठाए हुए यह सुतीक्ष्ण मुनि ( अर्थात् मुझे देखकर ) अपने उस दाहिने हाथ को अपनी अनुकूलता के साथ रुचिपूर्वक मेरे संमान मे इधर मेरी ओर उठा रहे हैं। जिस हाथ में रुद्राक्ष की माला का कड़ा पहने हैं और जिससे मृगों को सहलाते, तथा कुशारूपी सूइयाँ काँटे उखाड़ते हैं। अर्थात् दाहिना हाथ उठाकर मेरा स्वागत कर रहे हैं ॥ ४३ ॥
वाचंयमत्वात्प्रति ममेष कम्पेन किंचित्प्रतिगृह्य मूनः । दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्रार्चिषि संनिधये ॥ ४४ ॥