________________
त्रयोदशः सर्गः ललाटं =भालं तपतोति ललाटंतपः। ललाटंतपः = मस्तकस्य तप्ता सप्तसप्तिः = सूर्यः यस्य स ललाटंतपसप्तसप्तिः सन् तपस्यति = तपश्चरति ।
समासः-ललाटंतपः सप्तसप्तिः यस्य स ललाटंतपसप्तसप्तिः ।
हिन्दी-लकड़ियों से युक्त ( प्रज्वलित ) चार अग्नियों के बीच में मस्तकपर सूर्य की किरणों से तपते हुए जो तपस्वी तपस्या कर रहे हैं। ये नाम से तो सुतीक्ष्ण ( अति तीखें व कठोर ) हैं किन्तु चरित्र ( आचरण एवं स्वभाव ) से बड़े सहनशील तथा सौम्य हैं ॥
विशेष-चारों ओर से चार धुनी जलाकर तथा ऊपर जेठ-वैशाख के सूर्य की धूप से पञ्चाग्नि तपते हुए तपस्या करते हैं । उन्हें पञ्चाग्नितपा कहते हैं ॥ ४१ ॥
अमुं सहासप्रहितेक्षणानि व्याजाधसंदर्शितमेखलानि ।
नालं विकतु जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ॥ ४२ ॥ जनितेन्द्रशङ्कम् । तपसेति शेषः। अमुं सुतीक्ष्णं सहासं प्रहितानीक्षणानि दृष्टयो येषु तानि । व्याजेन केनचिन्मिषेण । 'पुंस्योऽधं सोऽशके' इति विश्वः। अर्थमीपसंदर्शिता मेखला येषु तानि सुराङ्गनानामिन्द्रप्रेषितानां विभ्रमा विलासा एव चेष्टितानि विकतुं स्खलयितुमलं समर्थानि न । बभूवुरिति शेषः ॥
अन्वयः-जनितेन्द्रशंकम् अमुम् सहासप्रहितेक्षणानि व्याजासन्दर्शितमेखलानि सुरांगनाविभ्रमचेष्टितानि विकर्तुम् अलं न 'बभूवुः' ।
व्याख्या-जनिता = उत्पादिता इन्द्रस्य = देवेन्द्रस्य शंका = त्रासः येन स तं जनितेन्द्र. शंकम् । तपसा मे देवेन्द्रासनमयं जेष्यतीति त्रासयुक्तमिन्द्रं कृतवानित्यर्थः। अमुं = सुतीक्ष्णनामानं मुनि हासेन सहितं सहासं, सहासं-हास्यपूर्वकं प्रहितानि = प्ररितानि, क्षिप्तानि ईक्षणानि = दृष्टयः येषु तानि सहासप्रहितेक्षणानि। व्याजेन = केनापि मिषेण अर्धम् = ईषत् सम्यक् दर्शिता = प्रकटिता मेखला कांची नितम्बः इत्यर्थः = येषु तानि व्याजासन्दर्शितमेखलानि । मखं = गति लातीति मेखला । मां = लक्ष्मी खलतीति वा मेखला । “मेखलाऽद्रिनितम्बे स्याद्रशना खड्गबन्धयोः” इति हैमः । सुराणां = देवानाम् अंगनाः = अप्सरसः इन्द्रेण तपोविघ्नकरणाय प्रेषिता इत्यर्थः। तासां विभ्रमाः = यौवने शृंगारजा विकारा एव चेष्टितानि == अंगभंगिमादिक्रियाः, इति सुरांगनाविभ्रमचेष्टितानि विकर्तुः= स्खलयितुं तपसो विघ्नं कर्तुमित्यर्थः । अलं =समर्थानि न । जातानीति शेषः।
समासः-जनिता इन्द्रस्य शंका येन स तं जनितेन्द्रशंकम् । सहासं प्रहितानि ईक्षणानि येषु तानि सहासप्रहितेक्षणानि । व्याजेन अर्ध सन्दर्शिताः मेखलाः येषु तानि व्याजासंदर्शित. मेखलानि। सुराणाम् अंगनाः सुरांगनास्तासां विभ्रमा एव चेष्टितानि, इति सुरांगनाविभ्रमचेष्टितानि ।
हिन्दी-इन्द्र के मन में भय पैदा कर देने वाले इस सुतीक्ष्ण मुनि को, इन्द्र के द्वारा