________________
१५६
रघुवंशे
अत्र पञ्चवट्याम् । गोदा गोदावरी। तस्याः समीपेऽनुगोदम् । 'अनुर्यत्समया' इत्यव्ययीभावः। मृगयाया निवृत्तस्तरङ्गवातेन विनीतखेदो रहो रहसि। अत्यन्तसंयोगे द्वितीया । त्वदुत्सङ्गनिषण्णमूर्धा सन्नहं वानीरगृहेषु सुप्तः स्मरामि । वाक्यार्थः कर्म । सुप्त इति यत्तत्स्मरामीत्यर्थः ॥
अन्वयः-अत्र अनुगोदं मृगयानिवृत्तः तरंगवातेन विनीतखेदः रहः त्वदुत्संगनिषण्णमूर्धा सन् अहं वामीरगृहेषु सुप्तः स्मरामि।
व्याख्या-अत्र = पंचवट्यां गोदायाः = गोदावर्याः समीपे अनुगोदम् = गोदावरीनदीसमीपे मृग्यन्ते पशवः यस्यां सा मृगया मृगयायाः = आखेटात् निवृत्तः = परावृत्तः, इति मृगयानिवृत्तः, मृगयां कृत्वा परावृत्त इत्यर्थः। तरंगाणां =गोदावरीवीचीनां वातः = वायुस्तेन तरंगवातेन विनीतः = दूरीकृतः खेदः= श्रान्तिः, पीडा यस्य स विनीतखेदः रहः=रहसि = एकान्ते, इत्यर्थः। तव =भवत्याः सीतायाः उत्संगे = क्रोडे निष्पण्णः= स्थापितः मूर्धा = मस्तकं येन स त्वदुत्संगनिषण्णमूर्धा सन् अहं = रामः वा= शुष्कम् आ समन्तात् नोरं येषां ते वानीराः। वानीराणां - वेतसानां गृहाणि = कुञ्जास्तेषु वानीरगृहेषु सुप्तः = शयितः स्मरामि = चिन्तायामि । अत्र स्मरणस्य कर्म वाक्यार्थः, सुप्त इति यत्तत्स्मरामीत्यर्थः।
समासः-गोदायाः समीपे अनुगोदम् । मृगयायाः निवृत्तः मृगयानिवृत्तः। तरंगाणां वातस्तरंगवातस्तेन तरंगवातेन। विनीतः खेदो यस्य स विनीतखेदः। तव अंकं त्वदंकम् , त्वदंके निषण्णः मूर्धा यस्य स त्वदंकनिषण्णमूर्धा । वानीराणां गृहाणि तेषु वानीरगृहेषु ।
हिन्दी-यहीं पंचवटी में, गोदावरी नदी के किनारे पर एकान्त में शिकार से लौटकर बेंत के कुओं में ( लताघरों में ) तुम्हारी गोद में शिर रखकर मैं सोता था। और नदी की तरंगों का शीतल वायु मेरी थकावट को दूर करता था। उन सब बातों को स्मरण कर कर रहा हूँ ॥ ३५ ॥
भ्रभेदमात्रेण पदान्मघोनः प्रभ्रंशयां यो नहुषं चकार । तस्याविलाम्म परिशुद्विहेतो मो मुनेः स्थानपरिग्रहोऽयम् ॥ ३६ ॥ यो मुनिभ्रंभेदमात्रेण भ्रमणमात्रेणैव नहुष राजानं मघोनः पदादिन्द्रत्वात्प्रभ्रंशयांचकार प्रभ्रंशयति स्म । आविलाम्भःपरिशुद्धिहेतोः कलुषजलप्रसादहेतोस्तस्य मुनेरगस्त्यस्य । अगस्त्योदये शरदि जलं प्रसीदतीत्युक्तं प्राक् । भूमौ भवो भौमः स्थानपरिग्रह आश्रमोऽयम् । दृश्यत इति शेषः । भौम इत्यनेन दिव्योऽप्यस्तीत्युक्तम् । परिगृह्यत इति परिग्रहः । स्थानमेव परिग्रह इति विग्रहः ॥ ___ अन्वयः—यः भ्रूभेदमात्रेण नहुषं मघोनः पदात् प्रभ्रंशयां चकार आविलाम्भःपरिशुद्धिहेतोः तस्य मुनेः भौमः स्थानपरिग्रहः अयम् । अस्तीति शेषः ।।
व्याख्या-भ्रवः = भृकुट्याः भेदः = भंगः, कौटिल्यमित्यर्थः इति भ्रूभेदः । भ्रभेद एवेति भ्रूभेदमात्रं तेन भ्रूभेदमात्रेण, भृकुटिकौटिल्यमात्रेणेत्यर्थः । यः = अगस्त्यमहर्षिः