________________
त्रयोदशः सर्गः
१५५
नीनाम् । काञ्चनस्य किंकिण्यः कांचनकिंकिण्यस्तासां काञ्चनकिंकिणीनाम् । गोदावर्य्याः सारसानां पंक्तयः इति गोदावरीसारसपंक्तयः ॥
हिन्दी - हे सीते ! देखो । विमान के झरोखों ( खिड़कियों) में लटक रही सोने की छोटी-छोटी घण्टियों के शब्द ( झनझन ) को सुनकर ( ये भी सारस बोल रहे हैं इस भ्रम (से) आकाश में उड़ती हुई, गोदावरी नदी के सारस पक्षियों की पांतें मानों तुम्हारी अगवानी करने आ रही हैं ॥ ३३ ॥
एषा त्वया पेशलमध्ययापि घटाम्बुसंवर्धित बालचूता । आनन्दयत्युन्मुखकृष्णसारा दृष्टा चिरात्पञ्चवटी मनो मे ॥ ३४ ॥
पेशलमध्ययापि । भाराक्षमयापीत्यर्थः । त्वया घटाम्बुभिः संवर्धिता बाल बूता यस्याः सा । उन्मुखा अस्मदभिमुखास्त्वत्संवर्धिता एव कृष्णसारा यस्याः सा चिराद्दृष्टैषा पञ्चवटी मे मन आनन्दयत्याह्लादयति । पञ्चवटीशब्दः पूर्वमेव व्याख्यातः ॥
श्रन्वयः—पेशलमध्यया अपि त्वया घटाम्बु संवर्धितवाळचूता उन्मुखकृष्णसारा चिरात् दृष्टा पंचवटी मे मनः आनन्दयति ।
-
व्याख्या - पेशं लातीति पेशलः मध्ये शरीरस्य भवः मध्यः, मां = शोभां धत्ते, इति वा मध्यः । पेशलः = सुकुमारः चारुः च मध्यः - शरीर मध्यभागः यस्याः सा तया पेशलमध्यया अपि भारोत्थापनेऽसमर्थयापीत्यर्थः । त्वया = सीतया घटस्य अम्बूनि घटाम्बूनि । घटाम्बुभिः : कलशजलैः जलेन प्रपूर्य त्वयानीतैरित्यर्थः संवर्धिताः = वृद्धिं नीताः बालचूताः = बालरसालाः यस्याः सा वटाम्बुसंवर्धितबालचूता । चूष्यन्ते इति चूताः । बालाः = अंकुराश्च ते चूता: बालचूताः । कृणेन सारा: : = शबलाः कृष्णसाराः । उन्मुखाः = ऊर्ध्वाननाः अस्मदभिमुखा इत्यर्थः । कृष्णसाराः=मृगाः यस्याः सा उन्मुखकृष्णसारा चिरात् = बहोः कालात् दृष्टा = अवलोकिता एषा = पुरोवर्तिनी पञ्चानां वटानां = वटवृक्षाणां समाहारः पंचवटी = दण्डकारण्यै भागः । मे = = मम रामस्य मनः = चित्तम् आनन्दयति = आह्लादितं करोति ।
समासः - पेशल: मध्यः यस्याः सा तया पेशलमध्यया । घटस्य अम्बुभिः संवर्धिता: बालचूताः यस्याः सा घटाम्बुसंवर्धितबालचूता । उत् मुखं येषां ते उन्मुखाः । उन्मुखाः कृष्णसाराः यस्याः सा उन्मुखकृष्णसारा । पञ्चानां वटानां समाहारः पंचवटी ।
हिन्दी -- बहुत दिनों पर देखी यह पंचवटी मेरे मन को आह्लादित कर रही है । "जहाँपर" तुमने पतली सुकुमार कमरवाली होकर भी घड़ों से जल देकर छोटे-छोटे आम के पौधों को बड़ा किया था, और जिसके चितकबरे मृग उपर मुख उठाकर हमारी ओर देख
रहे हैं ॥ ३४ ॥
अत्रानुगोदं मृगयानिवृत्तस्तरंगवातेन विनीतखेदः । रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः ॥ ३५ ॥