________________
१४२
रघुवंशे
भूमिः धारायां = चक्रे निबद्धा=आश्रिता कलंकस्य =मालिन्यस्य रेखालेखा, इति कलंकरेखा इव =यथा आभाति =शोभते।
समासः-अयसः चक्रमिति अयश्चकं तेन सदृशः, तस्य अयश्चक्रनिभस्य । लवणं च तदम्बु लवणाम्बु तस्य राशिस्तस्य लवणाम्बुराशेः । तमालानां तालीनां च वनानि तमालतालीवनानि तेषां राजिः, तया नीला, इति तमालतालीवनराजिनीला। धारायां निबद्धा धारानिबद्धा । कलंकस्य रेखा कलंकरेखा।
हिन्दी-दूर होने के कारण पतला लोहे के पहिये के समान खारे समुद्रका तट ( किनारा) और तमाल तथा ताड़ के बनों की पंक्ति से काला, ऐसा जान पड़ रहा है भानों पहिये की धार पर काली रेखा ( मोर्चा जंग लगा ) हो।
विशेष--तमाल, एक वृक्ष का नाम है। इसको छाल काली होती है। ताल ताड़ का वृक्ष । यह दोनों समुद्र तट पर खूब होते हैं। अतः सागर तट काला है । तथा अधिक ऊपर से पतला दीख पड़ता है। अतः पहिये में लगे गोलाकार पतले लोहे की तरह है ॥ १५ ॥
वेलानिलः केतकरेणुभिस्ते संभावयत्याननमायताक्षि ।
मामक्षमं मण्डनकालहानेवत्तीव विम्बाधरबद्धतृष्णम् ॥ १६ ।। हे आयताक्षि ! 'वेला स्यात्तीरनीरयोः' इति विश्वः । वेलानिलः केतकरणभिस्त आननं संभावयति । किमर्थमित्यपेक्षायामुत्प्रेक्षते-बिम्बाधरे बद्धतृष्णं मां मण्डनेनाभरणक्रियया कालहानिर्विलम्बस्तस्या अक्षममसहमानम्। कर्मणि षष्ठी। कालहानिमसहमानं वेत्ति किम् । नो चेत्कथं संभावयेदित्यर्थः ।।
अन्वयः-हे आयताक्षि ! वेलानिलः केतकरेणुभिः ते आननं सम्भावयति, बिम्बाधरबद्धतृष्णं मां मण्डनकालहानेः अक्षमं वेत्ति इव ।
व्याख्या-आयम्यते स्म, आयतते वा आयतम् । आयते = दी अक्षिणी =नेत्रे यस्याः सा आयताक्षी तस्याः संबुद्धौ हे आयताक्षि = हे सुलोचने ! “दीर्घमायतम्" इत्यमरः । वेलायाः-समुद्रतीरस्य अनिलः= वायुः, केतकस्य = सूचीपुष्पस्य केतक्या इत्यर्थः, रेणवः धूलयःपरागास्तैः केतकरेणुभिः ते= तव सीताया आननं = मुखं सम्भावयति = अलंकरोतीत्यर्थः। किमर्थ संभावयतीत्येपेक्षायामुत्प्रेक्ष्यते-बिम्ब = बिम्बिकाफलमिव यः अधरः ओष्ठः, तस्मिन् बिम्बाधरे बद्धा तृष्णा=अभिलाषो यस्य स तं बिम्बाधरबद्धतृष्णं मां रामम् मण्डनेन =अलंकरणक्रियया या कालस्य =समयस्य हानिः= व्ययस्तस्याः मण्डनकालहानेः, सीताया मुखचुम्बने विलम्बस्येत्यर्थः । न क्षमः=समर्थस्तंम् , अक्षम वेत्ति जानाति इव = किम् । अन्यथा परागेण तव मुखं कथमलंकरोतीत्यर्थः।
समासः-आयते अक्षिणी यस्याः सा तस्याः संबुद्धौ हे आयताक्षि !। वेलायाः अनिलः वेलानिलः । केतकस्य रेणवः केतकरेणवस्तैः केतकरेणुभिः। बिम्बमिव अधरः बिम्बाधरस्तस्मिन्