________________
त्रयोदशः सर्ग:
१४१ से जिनके मुख विन्ध गए हैं, ऐसा ये जीवित शंखों कह झुण्ड किसी प्रकार कष्ट पाकर देर करके इधर-उधर जा पारहा है ॥ १३ ॥
प्रवृत्तमात्रेण पयांसि पातुमावर्तवेगाभ्रमता घनेन ।
आभाति भूयिष्ठमयं समुद्रः प्रमथ्यमानो गिरिणेव भूयः ॥ १४ ॥ पयांसि पातुं प्रवृत्त एवं प्रवृत्तमात्रो न तु पीतवास्तेनावर्तवेगात् । 'स्यादावर्तोऽम्भसां भ्रमः' इत्यमरः । भ्रमता धनेनायं समुद्रो भूयः पुनरपि गिरिणा मन्दरेण प्रमथ्यमान इव भूयिष्ठमत्यन्तमाभाति ॥
अन्वयः-पयांसि पातुं प्रवृत्तमात्रेण आवर्तवेगात् भ्रमता घनेन अयं समुद्रः भूयः गिरिणा प्रमथ्यमानः इव भूयिष्ठम् आभाति ।
व्याख्या--पयांसि = जलानि पातुम् = आदातुं प्रवृत्त एव प्रवृत्तमात्रः. तेन प्रवृत्तमात्रेण न तु पीतवता इति भावः । आवर्तनम् आवर्तस्तस्य वेगस्तस्मात् आवर्तवेगात् = जलभ्रमणजवात् "स्यादावोंऽम्भसां भ्रमः" इत्यमरः । भ्रमता भ्रमणं कुर्वता, अनवस्थितेनेत्यर्थः । घनेन = मेघेन अयं = पुरो दृश्यमानः सागरः भूयः = पुनरपि गिरिणा= मन्दराचलेन प्रमथ्यतेऽसौ प्रमथ्यमानः = आलोड्यमानः इव = यथा अतिशयेन बहु भूयिष्ठम् = अत्यधिकम् आभाति = शोभते ।
समासः--प्रवृत्त एव प्रवृत्तमात्रः तेन प्रवृत्तमात्रेण । आवर्तस्य वेगः आवर्तवेगस्तस्मात् आवर्तवेगात् ।
हिन्दो—“यह देखो" जल पीने के लिये ( सागर में ) आये, और भंवरों के प्रबल वेग से ( उनके साथ २ ) चक्कर काटते हुये, बादल से यह समुद्र ऐसा जान पड रहा है मानों मन्दराचल से फिर दुबारा मथा जा रहा हो ॥ १४ ॥
दूरादयश्चक्रनिमस्य तन्वी तमालतालीवनराजिनीला ।
आमाति वेला लवणाम्बुराशेर्धारानिबद्धव कलङ्करेखा ॥ १५ ॥ अयश्चक्रनिभस्य लवणाम्बुराशेर्दूरात्तन्व्यणुत्वेनावभासमाना तमालतालीवनराजिभिर्नीला वेला तीरभूमिर्धारानिबद्धा चक्राश्रिता कलङ्क रेखा मालिन्यरेखेव । आभाति । 'मालिन्यरेखां तु कलङ्कमाहुः' इति दण्डी॥
अन्वयः-अयश्चक्रनिभस्य लवणाम्बुराशेः दूरात् तन्वी तमालतालीवनराजिनीला वेला धारानिबद्धा कलंकरेखा इव आभाति ।
व्याख्या-अयसः =लोहस्य चक्र इति अयश्चक्रं तेन निभः = तुल्यं तस्य अयश्चक्रनिभस्य लवणं =क्षारम् अम्बु = जलमिति लवणाम्बु तस्य राशिः= समूहः इति लवणाम्बुराशिस्तस्य लवणाम्बुराशेः= लवणसमुद्रस्येत्यर्थः । दुःखेनेयते तत् दूरं तस्मात् दूरात् = विप्रकृष्टात् तन्वी = कृशा= सूक्ष्मेत्यर्थः । तमालानां = तापिच्छानां तालोनां = तृणवृक्षविशेषाणां वनानि = अरण्यानि तेषां राजिः = पंक्तिः तया तद्वन्नीला = श्यामा, इति तमालतालीवनराजिनीला, वेला = सागरतट