________________
रघुवंशे
अन्वयः-ताम्-ताम् अवस्थां प्रतिपद्यमानम् , महिम्ना दश दिशः व्याप्य स्थितम् , विष्णोः इव अस्य रूपम् ईदृक्तया इयत्तया वा अनवधारणीयम् । __ व्याख्या-ताम्-ताम् = अनेकप्रकाराम् वीप्सायां द्विवचनम् अवस्थां = दशाम् , अक्षुब्धत्वस्थैर्यादिकामित्यर्थः । विष्णुपक्षे सत्त्वरजस्तमोरूपां दशां च प्रतिपद्यतेऽसौ प्रतिपद्यमानस्तं प्रतिपद्यमानं = भजमानं महतो भावः महिमा तेन महिम्ना = प्रभावेण,स्थैर्यगाम्भीर्यादिरूपेणेत्यर्थः । दश दशसंख्याका: दिशः= काष्ठाः “दिशस्तु ककुभः काष्ठाः” इत्यमरः। व्याप्य =अधिष्ठाय स्थितं विष्णोः= व्यापकस्य भगवतः कृष्णस्य इव = यथा अस्य = सागरस्य रत्नाकरस्य रूपं = स्वरूपं पूर्वोक्तप्रकारेणानेकत्वात् व्यापकत्वाच्च ईदृशो भावः ईदृक्ता तया ईदृक्तया = ईदृक्प्रकारतया इदं परिमाणमस्येति इयत् । इयतो भावः इयत्ता तया इयत्तया =सीमाप्रमाणतया वा अवधारयितुं = निश्चेतुं योग्यम् अवधारणीयं न अवधारणीयमिति अनवधारणीयं = अनिरूपणीयं वर्तते इति शेषः।
समासः--न अवधारणीयमिति अनवधारणीयम्।
हिन्दी-अनेक अवस्थाओं को प्राप्त हुए, अर्थात् अनेक रूपों से अनेक लोकोपकारी कार्य करने वाले तथा अपनी महानता से, प्रभाव से, दशों दिशाओं में फैले हुए, इस समुद्र के रूप को इतना है या ऐसा है, यह निश्चय वैसे ही नहीं किया जा सकता है जैसे कि सत्त्वगुण रजोगुण तथा तमोगुणकी अनेकावस्था को प्राप्त तथा व्यापक विष्णु भगवान् के रूप का, ऐसा है इतना है निश्चय नहीं किया जा सकता ॥ ५ ॥
नामिप्ररूढाम्बुरुहासन संस्तूयमानः प्रथमेन धात्रा।
अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशेते ॥ ६ ॥ युगान्ते कल्पान्त उचिता परिचिता योगाः स्वात्मनिष्ठेव निद्रव निद्रा यस्य स पुरुषो विष्णुलोकान्संहृत्य । नाभ्यां प्ररूढं यदम्बुरुहं पद्म तदासनेन तन्नाभिकमलाश्रयेण प्रथमेन धात्रा दक्षादीनामपि स्रष्ट्रा पितामहेन संस्तूयमानः सन्। अमुमधिशेते । अमुष्मिन्छेत इत्यर्थः । कल्पान्तेऽप्यस्तीति भावः।
अन्वयः--युगान्तोचितयोगनिद्रः पुरुषः लोकान् संहृत्य नाभिप्ररूढासनेन प्रथमेन धात्रा संस्तूयमानः सन् अमुम् अधिशेते ।
व्याख्या-युगानाम् = कल्पानाम् अन्तः=अवसानमिति युगान्तः। युगान्ते = प्रलयकाले उचिता = परिचिता योगः समाधिः स्वात्मनिष्ठा एव निद्रा इव निद्रा= शयनं यस्य स युगान्तोचितयोगनिद्रः । पुरति = अग्रे गच्छतीति पुरुषः = विष्णुः लोक्यन्ते इति लोकास्तान् लोकान् = भुवनानि संहृत्य = स्वात्मनि लीनीकृत्य - नद्यते = बध्नातीति नाभिः। अम्बुनि =जले रोहति इति अम्बुरुहम् । नाभ्याम् = उदरावर्ते प्ररूढम् = उत्पन्नं यत् अम्बुरुहं = कमलमिति नाभिप्ररूढाम्बुरुहं तदासनम् = आश्रयः यस्य स तेन नाभिप्ररूढाम्बुरुहासनेन प्रथमेन = प्रथमोत्पन्नेन