________________
त्रयोदशः सर्गः
१३३ गर्भ दधत्यर्कमरीचयोऽस्माद्विवृद्धिमत्रानुवते वसूनि ।
अबिन्धनं वह्निमसौ बिभर्ति प्रहलादनं ज्योतिरजन्यनेन ॥ ४ ॥ अर्कमरीचयोऽस्मादब्धः। अपादानात् । गर्भमम्मयं दधति । वृष्टयर्थमित्यर्थः। अयमों दशमसर्गे 'ताभिर्गर्भ:-' (५८) इत्यत्र स्पष्टीकृतः। अयं लोकोपकारीति भावः। अत्राब्धौ वसूनि धनानि । 'धने रत्ने वसु स्मृतम्' इति विश्वः । विवृद्धिमश्नुवते प्राप्नुवन्ति । संपदानित्यर्थः। असावाप इन्धनं दाह्यं यस्य तद्दाहकं वहि बिभर्ति। अपकारेऽप्याश्रितं न त्यजतीति भावः। अनेन प्रह्लाद नमाह्लादकं ज्योतिश्चन्द्रोऽजनि जनितन् । जनेय॑न्तात्कर्मणि लुङ् । सौम्य इति भावः॥
अन्वय.--अर्कमरीचयः अस्मात् गर्भ दधति, अत्र वसूनि विवृद्धिम् अश्नुवते,असौ अबिन्धनं वह्नि बिभति, अनेन प्रह्लादनं ज्योतिः अजनि। ____ व्याख्या--अर्च्यते = पूज्यते, अयंत = स्तूयते वा इति अर्कः म्रियते तमः = अन्धकारः येषु ते मरीचयः । अर्कस्य = सूर्यस्य मरीचयः = किरणाः,अर्कमरीचयः अस्मात् = समुद्रात् गर्भ = जलमयं दधति = धारयन्ति वर्षणार्थमित्यर्थः । अनेनायं समुद्रः लोकोपकारीति प्रकटितम् । अत्र = अस्मिन् समुद्रे वसूनि = धनानि रत्नानि विवृद्धि = स्फाति प्रवर्धनमित्यर्थः "स्फातिवृद्धौ” इत्यमरः । अनुवते = प्राप्नुवन्ति, रत्नाकरोऽयमित्यर्थः । असौ = सागरः आपः = जलानि इन्धनं = दाह्यं यस्य तम् । अबिन्धनं वह्नि = बडवाग्नि बिभर्ति = धारयति । अपकारेऽपि शरणागतं न त्यजतीत्यर्थः । अनेन = समुद्रेण प्रह्लादनम् = आह्लादकं ज्योतिः == चन्द्रः अजनि = जनितम् , उत्पादितम् । प्रसन्न इति भावः । ___ समसः--अर्कस्य मरीचयः अर्कमरीचयः । आपः इन्धनं यस्य सः अबिन्धनस्तम् अबिन्धनम् । ___ हिन्दी-हे सीते ! देखो सूर्य की किरणें इसी समुद्र से जलरूपगर्भ को धारण करती हैं । अर्थात् सूर्य अपनी किरणों द्वारा समुद्र से जल खींच ता है और पृथिवी में वर्षा करता है। और इसी समुद्र में धन, रत्न, बढते हैं। तथा यह अपने शत्रु वडवानल को भी पालन करता है आश्रय देता है। एवं आनन्ददायक तथा प्रकाश करने वाले चन्द्र को इसी ने पैदा किया है । अर्थात् यह समुद्र बडा ही लोकोपकारी, सम्पत्तिवाला, तथा आश्रित का रक्षक एवं सौम्य है ।। ४ ॥
तां तामवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना ।
विष्णोरिवास्यानवधारणीयमीदृक्तया रूपमियत्तया वा ॥ ५ ॥ तां तामनेकाम् । 'नित्यवीप्सयोः' इति वीप्सायांः द्विरुक्तिः । अवस्थामक्षोभाद्यवस्थाम् । विष्णुपक्षे सत्त्वाद्यवस्थाम् । प्रतिपद्यमानं भजमानं महिम्ना दश दिशो व्याप्य स्थितं विष्णोरिवास्य रत्नाकरस्य रूपं स्वरूपमुक्तरीत्या बहुप्रकारत्वाद्वयापकत्वाच्चेदृक्तयेयत्तया वा प्रकारता परिमाणतश्चानवधारयं दुनिरूपम् ।