________________
तरगृहेण सत्त एयाणि । अन्ये भणंति-शय्यातरगृहं वर्जयित्वा सप्त । अन्ये पुनः शय्यातरगृहमनन्तरगृहं च वर्जयन्ति, उद्गमदोषसद्भावात् ॥ सूत्रम् २५३-'पाणिपडिग्गाह' जिनकल्पिकादेः । ओसमही-वासा फुसारमात्रं यावत् पतति तावन्न कल्पते गन्तुम् ॥ सूत्रम् २५४-'अगिहंसि' अच्छादिते, आकाशे इत्यर्थः । 'पिंडवार्य आहारम् । आहारस्य देश भुक्त्वा देशमादाय 'निलिज्जिज्जा' निक्षिपेत् उरःप्रभृतिषु । 'अहाछन्नाणि' स्वनिमित्तमाच्छादितानि 'लेणानि' गृहाणि पाणिसि नो निपतन्ति, बहवो बिन्दवः दकम् , 'दगरए' बिन्दुमात्रम् , 'दगफुसिया' ओसा एगदेसे निपतति ॥ सूत्रम् २५६-'पडिग्गधा'. स्थविरकल्पिकस्य । 'वाघारियत्ति जत्थ वासकप्पो गलइ, अच्छिन्नाए वा धाराए वरिसइ, जत्थ वा वासकप्पं भेत्तणं अंतोकायं उल्लेइ । 'संतरुत्तरंसि' अंतरमिति-कल्पः उत्तरं च-वर्षाकल्पकम्बली, अथवा अंतरं-रजोहरणं पडिग्गहो वा उत्तरं-पाउकरणकप्पो तेहिं सह ॥ सूत्रम् २५७--'निगिज्झिय निगिज्झिय' स्थित्वा स्थित्वा । 'कप्पइ अहे वियडगिहंसि वा' आस्थानमण्डपम् । पुव्वाउत्ते 'भिलंगसूवे' मसूरदालिः उडिददालिक इति जनश्रुतिः व्यवहारवृत्तौ विदमुक्तम्-"यद् गृहस्थानां पूर्वप्रवृत्तमुपस्क्रियमाणं तत् पूर्वायुक्तम्" । इति । साधोरागमनात् पूर्व गृहस्थैः स्वभावेन राध्यमानः सतन्दुलोदनः 'भिलंगस्पो नाम' सस्नेहः सूपो दालिरिति स कल्पते प्रतिग्रहीतुम् । योऽसौ तत्र 'पूर्वागमनेन' पूर्वागताः साधव इति हेतोः पश्चाद् दायकः प्रवृत्तो रार्दु स तन्दुलोदनो भिलंगसूपो वा नासौ कल्पते प्रतिग्रहीतुमिति ॥ सूत्रम् २५९-' तत्थ नो कप्पइ दोन्हें निग्गं जाव एगयओ चिठितए' शङ्कादोषसद्भावात् । 'सपडिदुवारे' सव्वओ दुवारे सव्वगिहाणं वा दुवारे, कल्पते स्थातुम् ॥ सूत्रम २६२-'अपडिन्न 'त्ति अपृष्टस्य, 'अपडिन्नओ' न केणइ कुत्तं मम आमिजासि, न का तेण कोइ पडिन्नओ जहाऽहं तव आणिस्सामि । 'इच्छा परो'त्ति यद्यनिच्छन् भुक्ते तदा तस्य ग्लानिः, अथ न मुले तदा परिष्ठापनदोषः स्यात् ॥ . सूत्रम् २६४–'सत्त सिणेह'त्ति स्नेहायतनानि स्थानानि–'पाणी' हस्तौ १ 'पाणिरेखाः' आयूरेखादयः तासु सुचिरदर्क तिष्ठति २ 'नखाः' प्रतीताः ३ 'नखशिखाः तदप्रभागाः ४ भ्ररोमाणि ५ श्मश्रुः ६ 'उत्तरोडा दाढियाओ ७, एतेषु चिरं तिष्ठत्युदकार्द्रता ॥ सूत्रम् २६५ - इमाइं अट्ठ सुहुमाई ति सूक्ष्मत्वादल्पाधारत्वाच्च 'अभिक्खणं' पुनः पुनः जाणियवाणि सुतोवएसेणं, पासियवाणि चक्खुणा, एएहिं दोहि वि जाणित्ता पासित्ता य परिहरियव्वाणि । तानि च स्थानाङ्गवृत्तौ यथा-"अट्ट सुहुमे'त्यादि, सूक्ष्माणि श्लक्ष्णत्वादल्पाधारतया च" ॥ सूत्रम् २६६-तत्र 'प्राणसूक्ष्म' अनुधरी कुन्थुः, कु:-भूमिस्तस्यां तिष्ठतीति कुन्थुः, सहि चलन्नेव विभाव्यतेन स्थितः, सूक्ष्मत्वादिति । अत्र चूणि:-"पाणसुहुमे 'पंचविहे' पंचप्पगारे, एक्केके वन्ने सहस्ससों भेदा अन्ने बहुप्पगारा संजोगा ते सव्वे वि पंचसुसमोयरति किन्हाइसु, नो चक्खुफासं० जे निग्गंथाणे २ अभिक्खणं २० जत्थ ठाणनिसीयणाणि चेएइ आयाणं गहणं निक्खेवणं वा करेइ" १॥ . सूत्रम् २६७- 'पंचविहे' इत्यादि सर्वस्थानेषु वाच्यम् , 'पनकसूक्ष्म' पनकः-उल्ली स च प्रायः प्रावृट्काले भूमीकाष्ठादिषु पञ्चवर्णस्तद्र्व्यलीनो भवति, स एव सूक्ष्ममिति । एवं सर्वत्र २॥