________________
'माणुम्माण' इह मानं-रस-धान्यविषयम् उन्मानं-तुलारूपम् । 'उस्सुंक' उच्छुल्कम् , शुल्कं तु विक्रयभाण्डं प्रति राजदेयं द्रव्यं मण्डपिकायामिति । 'उक्करं ति उन्मुक्तकरम् , करस्तु गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यम् । 'उकिटठं' उत्कृष्ट-प्रधानम्, लभ्येऽप्याकर्षणनिषेधाद्वा । 'अदेज्ज' विक्रेयनिषेधेनाविद्यमानदातव्यं जनेभ्यः । 'अम्मेज' विक्रेयनिषेधादेवाविद्यमानमातव्यं अमेयं देयमिति । 'अभड' अविद्यमानो भटानांराजाज्ञादायिनां पुरुषाणां प्रवेशः कुटुम्बिगृहेषु यस्मिन् । 'अदंडकोदंडिम' दण्डं-लभ्यद्रव्यम् , दण्ड एव कुदण्डेन निर्वृत्तं द्रव्यं कुदण्डिमम् , तन्नास्ति यस्मिन् तद् अदण्डकुदग्डिमम् । तत्र दण्डः-अपराधानुसारेण राजग्राह्यं द्रव्यम्, कुदण्डस्तु-कारणिकानां प्रज्ञापराधान्महत्यप्यपराधिनि अल्पं राजग्राह्यं द्रव्यमिति । 'अधमि अविद्यमानधारणीयद्रव्यम् ,रिणमुत्कलनात् । 'गणियावरनाडइज्ज' गणिकावरैः-वेश्याप्रधानैर्नाटकीयैः-नाटकसम्बन्धिभिः पात्रः कलितम् । 'अणेगतालायराणु' नानाविधप्रेक्षाकारिसेवितं कुण्डपुरवरं ति । 'आसिय[सुइ]सम्मजिय' आसिक्तं-ईषसिक्तम् अत एव शुचिकं सम्मानितं-कचवरापनयनेन उपलेपितं-गोमयादिना । सिधाटकादि-पूर्ववर्णितम् । सम्मृष्टं-समभूम्यादिकरणेन रथ्यान्तरापणवीयिष्विति । 'मंचाइमंच' सुगमम् । 'लाउल्लोइयमहियं 'लाउति लिप्तं-छगणादिना उल्लोवितं-देवदूष्यवितानैः महितं-पञ्चवर्णपुष्पप्रकरपुष्पगृहकरणेनेति । दर्दर-मलयाभिधानपर्वतयोः समुद्भूतचन्दनादिद्रवेग दत्तपञ्चाङ्गुलितलम् । अन्ये स्वाहुः-दर्दरः-चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितेन वा । 'वाघारियमल्ल' वाघारितं-ऊर्वीकृतपुष्पगृहाकारि सर्वत्रापि माल्यदामकलापम् । कुन्दरकादि पूर्ववत् । नटाः-नाटककर्तारः, 'नट्टग' ये स्वयं नृत्यन्ति, जल्लाः-वरत्राखेलकाः, मल्लमुष्टिकाः-मल्ला एव प्रतीताः, वेलम्बकप्लवकाः-उत्प्लुत्य ये नृत्यन्ति मुखाचनेकप्रकारान् दर्शयन्ति च, कथकपठकाः-प्रतीताः, लासकाः-रासकान् ये ददति, 'आरक्खग' आरक्षकाः। लसाः-वंशाप्रनतकाः, मञ्जाः-गौरीपुत्रकाः मञ्जलिका इति प्रसिद्धाः, तूणइला:-तूगीरधारकाः, तुम्बा:-किन्दरिका आलपन्यादिवादिनः, वीणिकाः-वीणावादिनः, अनेके तालाचरा:-ये तालान् कुट्टयन्तः कथां कथयन्ति । 'अणु यमुयंग' अनुघृताः-वादनाथ वादकैरविमुक्ता मृदङ्गा यस्मिन् । 'अमिलायमल्लदाम अम्लानपुष्पमालम् 'पमुइयपकीलिय प्रमुदितजनयोगात् प्रमुदितम्, प्रकीडितजनयोगात् प्रक्रीडितम् , ततः कर्मधारयोऽतस्तम् । 'सपुरजण' सह पुरजनेन जनपदेन च-जनपदसम्बन्धिजनेनायं
उक्करं उकिट्ट अदेज्जं अमेज्जं अभडप्पवेस अदंडकोदंडिम अधरिमं गणियाबरनाडाजकलिय अणेगतालायराणुचरियं करेहकारवेह, अणेग २त्ता कुंडपुर नगर सब्मितरबाहिरियं । आसिय[सुइसम्मन्जिभोवलेषियं सिंघाडगतियचउक्कवञ्चरचउम्मुहमहापहेसु सम्मट्ठ. रत्थंतरावणवोहियं मंचाइमंचकलिय लाउल्लोइयमाहियं बहरदिण्णपचंगुलितलं बग्घारिय. मल्लदामकलावं कालागुरुपवरकुंदुमक्कतुरुक्कडझंतधूवमघमघेतगंधुधुयाभिरामं सुगंधवरगं । धियं गंधवटिभूयं नडनदृगजल्लमल्लमुट्ठिय वेलंबगपषगकहगपढकलासगआइक्खगलं खमंख. सूणइलतुंबवीणियअणेगतालायराणुचरिय अणुधुयमुहंगं अमिलायमल्लदाम पमुख्यपकोलिय. सपुरजणडाणवयं करेह कारवेह. करेत्ता कारवेत्ता य जूयसहस्सं च मुसलसहस्सं च उस्स. घेह, उस्सवित्ता य मम पयमाणतिय पञ्चप्पिणेह॥१७॥