________________
है।
नोइसायहि नमसुक्केहि जाव' यतस्तेषां मन्यात् कानिचिद् वातिकानि पैत्तिकानिः श्लेष्मविपायकानि च । उक्त च वाग्भटे-वातलैश्च भवेद् गर्भः, कुन्जान्धजडवामनः । पित्तलैः स्खलतिः पिङ्गः, चित्री पाण्डुः कफात्मभिः ॥१॥( )'सव्वसुभयमाण' ऋतौ ऋतौ भग्यमानानि यानि सुखानिसुखहेतवः शुभानि वा तानि तथा तैः भोजनाच्छादमादिभिः । 'गम्भस्स हिअं तमेव गर्भमपेक्ष्य, 'मि परिमितं नाधिकमनं वा, पच्छं सामान्येन पथ्यम् । किमुक्तं भवति ! 'गब्भपोसणं' गर्भपोषकमिति 'देसे य उचितभूप्रदेशे 'काले य' तथाविधावसरे आहारमाहारेमाणी 'विवित्तमउएहि विविक्तानिदोषवियुक्तानि लोकान्तरासङ्कीर्णानि वा मृदुकानि च-कोमलानि यानि तथा तैः । 'पइरिक्क' प्रतिरिक्तत्वेनतथाविधजनापेक्षया विजनत्वेन सुखा शुभा वा या सा तथा तया, 'मणाणुकूलाए विहारभूमीए'। 'पसत्थदोहला' अनिन्धमनोरथा । 'सम्माणिय प्राप्ताभिलषितस्य भोगात । 'अविमाणिय' क्षणमपि लेशेनापि च नापूर्णमनोरथेत्यर्थः । अत एव 'वोच्छिन्न' त्रुटितवाञ्छेत्यर्थः । 'संपुन्न' अभिलषितार्थपूरणात् । 'वैवणीय' व्यपनीतदोहदा । दोहदव्यवच्छेदस्यैव प्रकर्षाभिधानायाह-'विणीयदोहल'त्ति । ['ववगयरोग'] इत्यादि, इंह च मोहः-मूढता परित्रासः-अकस्माद्भयम् । इह स्थाने वाचनान्तरे 'सुहं सुहेणं' ति सुखं सुखेन यथा भवति गर्भानाबाधया 'आसयई' आश्रयतिआश्रयणीयं वस्तु, 'सयई' शेते, 'चिट्ठइ' ऊर्ध्वस्थानेन तिष्ठति, 'विहरई' विचरति, निसीयइ' उपविशति, 'तुयट्टइ' शय्यायां वर्तत इति ॥ सूत्रम् ९५ - तं रयणि जाव सिद्धत्थरायभवणंसि हिरन्नवासं हिरण्य-रूप्यम् . घटितसवर्णमित्यन्ये. वर्षः-अल्पतरः वृष्टिस्तु-महतीति, 'बीयवासं जाव' सुगमं 'मलवासं च' माल्यं तु-प्रथितपुष्पाणि, वर्णः-चन्दनम्, चूर्णःगन्धद्रव्यसम्बन्धी, गन्धाः-कोष्ठपुटपाकाः, वसुधारावर्ष वर्षन्ति ।। प्रियमाषिताभिधा [चेटी] राजानं वर्द्धापयति, यथा-पियट्टयाए प्रियार्थतायै प्रीत्यर्थमित्यर्थः 'पियं निवेएमो' प्रियं-इष्टं वस्तु पुत्रजन्मलक्षणं निवेदयामः, 'पियं में भवतु' एतच्च प्रियनिवेदने प्रिय 'मैं' भवतां भवतु, तदन्यद्वा प्रियं भवन्विति । तस्या दान 'मउडवज्जति मुकुटस्य राजचिह्नत्वात् लोणां चानुचितत्वात् तस्येति तद्वर्जनम्, 'जहामालियं यथाधारितं"मल मल्ल धारणे" इति यथापरिहितमित्यर्थः 'ओमोयं अवमुच्यते-परिधीयते यः सः अवमोकः-आभरणं तम् । 'मन्थए धोयह' अङ्गप्रतिचारिकाणां मस्तकानि क्षालयति दासत्वापनयनार्थम्, स्वामिना धौतमस्तकस्य हि दासत्वमपगच्छतीति लोकव्यवहारः॥ सूत्रम् ९७–'चारगसोहणं' बन्दमोचनमित्यर्थः ।
१भत्र सर्वेष्वपि टिप्पनकादर्शषु 'अवणीय' इति दृश्यते ॥
२ एनं टिप्पनकांशमवलोक्य श्रीमद्भिः कल्पकिरणाचलीवृत्तिकृद्धिः स्ववृत्तो "पियट्रयाएं पियं निवेपमो, पियं मे भवतु, मउडवज्जं जहामालियं ओमुयं मत्थए धोयह-इत्ति क्वचिद श्यते" इत्येवं यद् वाचनान्तरत्वेन निष्टहितमस्ति तत्र सम्यगाकलथामः, यतो न टिप्पनककृता इंदै सूत्रत्वेन व्याख्यातं वर्तते. किन्तु ज्ञातासूत्रानुसारतः प्रसासूचनमात्रमेव कृतं वरीवृत्यत इति नैवाय टिप्पनकनिर्दिो व्याख्यातश्चापि खण्डसूत्रांशो वाचनान्तराई इस्त्रार्थे तद्विद एव प्रमाणमिति ॥ .
३ टिप्पनककृमिप्रायेण सप्तनवतितमं सूत्रमित्थरूपं सम्भाव्यते-खिप्पामेव मी देवाणुप्पिया! कुंडपुरें नगरे चारगसोहणं करेह, चारगसोहण २त्ता माणुम्माणघद्धणे करेह, माणु २त्ता उस्सुक