________________
१०
-
सावरपत्तनोद्गता च-वरवस्त्रोत्पत्तिस्थानसम्भवेति समासः अतस्ताम्, वरपट्टनाद्वा प्रधानवेष्टनकादुद्गला-निर्गता या सा तथा ताम् । 'सन्हपट्टे' त्ति सूक्ष्मपट्टसूत्रमयो भक्तिशत चित्रः तानः - ताननको यस्यां सा तथा ताम् । 'सययसमुचिय'त्ति सतत - सर्वकालं समुचिता । ईहामृगाः - वृकाः, ऋषभाः- वृषभाः, तुरग-करिविहगाः - प्रतीताः, व्यालाः- श्वापदा भुजगा वा, किन्नराः - व्यन्तरविशेषाः, शरभा:-आटव्याः, अष्टापदा:महाकायाः, चमरा:-आटव्यगवाः, कुञ्जराः - गजाः, वनलताः - अशोकादिलताः, पद्मलताः पद्मिन्यः, एतासां यका भक्तय: - विच्छित्तयस्ताभिश्चित्रा या सा तथा । 'अभितरियं 'ति आभ्यन्तरां जवनिकां अंछावेइ'त्ति आकर्षयति । 'अच्छुरयमिउ' आस्तरकेण-प्रतीतेन मृदुमसूरकेण च, अथवा अस्तरजसा-निर्मलेन मृदुमसूरकेण आस्तृतं - आच्छादितं यत् तत्तथा । 'अंगसुहफासयं' अङ्गसुखः - देहस्य शर्महेतुः स्पर्शो यस्य तदङ्गसुखस्पर्शकम् ॥ सूत्रम् ६४ -- भदाणं रयावित्ता 'अहंग' अष्टाङ्गं - अष्टावयवं यद् महानिमित्तं परोक्षार्थप्रतिपत्तिकारणव्युत्पादकं महाशास्त्रं तस्य यो सूत्रार्थी तो धारयन्ति ये ते तथा तान् । निमित्ताङ्गानि चाष्टाविमानि-अष्ट्ठ निमित्तंगाई, दिव्वु १ प्पाय २ ऽन्तलिक्ख ३ भोमं ४ च । अंग ५ सर ६ लक्खणं ७ वंजणं च तिविहं पुणेक्कं ॥ १ ॥ सिग्घमित्यादीन्येकार्थानि औत्सुक्योत्कर्षप्रतिपादनपराणि ॥ सूत्रम् ६६ – ' कयबलिकम्मा' स्नानानन्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते तथा । 'कयको उय' कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि - दुःस्वप्नादिविघातार्थमवश्यकरणीयत्वाद् यैस्ते तथा । स्वाहु: - 'पायच्छित्ता' पादेन पादे वा छुप्ताः- चक्षुर्दोषपरिहारार्थं पादच्छुत्ताः कृतकौतुकमङ्गलाश्च ते पादछुप्ताश्चेति विग्रहः । तत्र कौतुकानि मषीतिलकादीनि मङ्गलानि तु सिद्धार्थकदध्यक्षतदूर्वाङ्करादीनि । 'सुtवेसाई' शुद्धात्मानः 'वेश्यानि' वेषोचितानि, अथवा शुद्धानि च तानि प्रावेश्यानि च - राजसभाप्रवेशोचितानि शुद्धप्रावेश्यानि वस्त्राणीति परिधाय । 'अल्पमहार्ष्याभरणभूषिताः' अल्पानि च तानि महार्ष्याभरणानि च तैर्भूषिताः । सिद्धार्थकाः सर्षपाः हरितालिका- दूर्वा तल्लक्षणानि कृतानि मङ्गलानि मूर्ध्नि यैस्ते तथा ॥ सूत्रम् ६८ – 'सुमिणलक्खण' 'अच्चिय' अर्चिता गन्धचन्दनादिभिर्देवतावत् वन्दिताः सद्गुणकीर्त्तनेन पूजिता वस्त्राभरणादिभिः, सह्कारिता अभ्युत्थानादिभिः, सम्मानिता आसनदा - नादिभिः ॥ सूत्रम् ७० तेच स्वप्नानि श्रुत्वा 'लट्ठा' स्वतः, 'गहिया' परस्मात्, 'पुच्छि - यद्वा' संशये सति परस्परतः, 'विणिच्छियट्ठा' प्रश्नान्तरम्, अत एवाभिगतार्था इति ॥ सूत्रम् ७१'सुविण'त्ति सामान्यफलत्वात्, 'महासुमिणा' महाफलत्वात् । अम्हं सुविणसत्थे द्विचत्वारिंशतत्रिंशतश्व मीलनाद् 'बावतारं 'ति द्विसप्ततिर्भवति । 'अरहंतमायरो वा जाव गब्भं वक्कममाणंसि' गर्भं व्युत्क्रामतिप्रविशतीत्यर्थः । 'गय वसमेत्यादि, इह 'अभिसेय' लक्ष्म्यभिषेकः । 'दाम' पुष्पमाला । 'विमाण भवण' एकमेव, तत्र विमानाकारं भवनं विमानभवनम् अथवा देवलोकाद् योऽवतरति तन्माता विमानं पश्यति, यस्तु नरकात् तन्माता भवनमिति । इह च गावायां केषुचित् पदेष्वनुस्वारस्याश्रवणं गाथानुलोम्याद दृश्यमिति ॥ सूत्रम् ७८- 'असणेण जाव जीवियारिहं' जीवकोचितम् ॥ सूत्रम् ८४गर्भस्थे सति कुर्वन्ति सुभिक्षानि दुर्भिक्षप्रतिषेधात् सन्निहिं - घृतगुडादिस्थापनानि, सन्निचयाः
"