________________
To
मानसारे
एकोनविंशद्धस्तादौ चाटविंशद्धस्तपर्यन्तम् ।
एतत्तु पथ्यविपुलं तुद्रं मध्यममुत्कृष्टं सप्ततले ॥ ३८ ॥ शान्तिकं पौष्टिकं जयदं चाद्भुतमुत्तुङ्गं सार्वकामिकम् । तेषां चोत्तममादीनां प्रत्येकं विपुलवशात्क्रमतः ॥ ३६ ॥ नवविंशत्करमादौ त्रयस्त्रिंशत्करपर्यन्तम् ।
त्रिंशतिहस्तं चादौ चतुस्त्रिंशति हस्तपर्यन्तम् ॥ ४० ॥ एकत्रिंशतिहस्तादौ पञ्चत्रिंशतिहस्तपर्यन्तम् ।
पश्च पञ्च विपुलं कनीयसादि त्रिविधमुत्सेधम् ( मुदितम् ) ॥ ४१ ॥ एतदष्टवलमुदितं चेोदयं शान्तिकादि पूर्ववत् संयुक्तम् । द्वात्रिंशत्करमारभ्य षट्त्रिंशत्करान्तकम् [च] ॥ ४२ ॥ पूर्ववद्वृध्या त्रयस्त्रिंशत्करमारभ्य सप्तत्रिंशकरपर्यन्तम् । चतुस्त्रिशद्धस्तादौ चाष्टत्रिंशान्तं चैककरैर्वृध्यात् ॥ ४३ ॥ नवतले त्रिपभ्वविधं वै (वि) पुलं कन्यसादिश्रेष्ठं प्रवक्ष्यते । पूर्ववतुंङ्गमुदितं शान्तिकादिशरभेदमेतत् ॥ ४४ ॥ त्रयत्रिंशत्कर मादौ चत्वारिंशद्वयाधिकम् । चतुस्त्रिंशति हस्तादि (दो) त्रिचत्वारिंशद्धस्तपर्यन्तम् ॥ ४५ ॥ पभ्चत्रिंशद्धस्तादौ चतुश्चत्वारिंशद्धस्तपर्यन्तम् । एवं दशतलहर्म्य पथ्या (च) दशविपुलं प्रोक्तम् ॥ ४६ ॥ शान्तिकाद्युक्तं क्रमतः कन्यसादुत्तमान्तं कथितम् । चतुखिंशद्धस्तादौ त्रिचत्वारिंशद्धस्तपर्यन्तम् ॥ ४७ ॥ पश्चत्रिंशत्करमारभ्य चतुश्चत्वारिंशत्करपर्यन्तम् । षट्त्रिंशत्करविपुलात्पश्वचत्वारिंशद्धस्तपर्यन्तम् ॥ ४८ ॥ एकादशतल (ल) हर्म्ये क्षुद्रादिपञ्चदशविपुलं स्यात् । पूर्ववत्पश्यधात्सेधं जन्मादिस्तूपिकान्तं स्यात् ॥ ४६ ॥ भूतस्तिं (त्रिंशद्धस्तादि (दा) वेदाधिक्यं (क) चत्वारिंशद्धस्तान्तम् । षट्षड्ढस्तमारभ्य पञ्चचत्वारिंशद्धस्तपर्यन्तम् ॥ ५० ॥
[चध्यायः
76
80
84
88
9%
96