________________
72
११]
भूमिसम्बविधानम्
भूमिलम्ब विधानम्
भूमिलम्बविधिं वक्ष्ये शास्त्रे संक्षेपतः क्रमात् ॥ १ ॥ चतुरश्रमायताचं वर्तुलमायतं (लं च तथैव ) तत् । अष्टाश्रमायतं(श्रं षडश्रं) वा द्वनश्रवृत्तं तथैवात्तरम् ॥ २ ॥ एतद्विन्यासभेदं वा क्षयवृद्धिविधानकम् । उक्तं हि भूमिलम्बं [तु] स्यादेकान्त (र्क) भूमिकम् ॥ ३ ॥
द्विकरं त्रिकरं चादी द्विद्विकरेण वृद्धिः क्रमेण । दशनव(शैकादश) हस्तान्तं स्यात्पञ्चचतुर्वि (ध्वधा विस्तार मेकतले ॥ ४ ॥
एतेषु क्षुद्रमानं मध्यमं पथ्यषड्ढ ( चतुष्पथ्वह) स्तमारभ्य । एकादशा (द्वादशैका) हस्तान्तं द्विद्विहस्तेन वृद्धिः कथिता ॥ ५ ॥
एतत्तु पचविपुलं युग्मायुग्मेन चोत्तमं वचये । षट्सप्तकरं चादी द्विसप्तपश्वत्रयकरान्तं च ।। ६ ।। एते पथ्वधा विपुलं श्रेष्ठान्तमेकतलं कथितम् । विशालद्वयात्तुङ्ग सोपानादिस्तूपिकान्तं स्यात् ॥ ७ ॥ एव कनिष्ठहर्म्ये तन्त्रविद्भिः पुरातनैः कथितम् । विशाले चतुरंशं [स्यात् ] त्रियं (त्र्यं )शाधिकमुत्सेधम् ॥ ८ ॥ पूर्वमध्यमहर्म्य चैकभूमिकमिदमुक्तं [तु] । विशालार्धाधिकमुत्सेधमुत्कृष्टहर्म्यमेकतले ॥ ६ ॥
अथवा तत्र मौन्यं (चतुरं ) शे त्र्यं (चां)शाधिकमुत्कृष्टमुत्सेधम् । क्षुद्रोत्सेधस्य माने तु हीनाधिकं वाधितं (तत्समाधिकायामं ) स्यात् ॥ १० ॥
पश्यधात्सेधमुत्कृष्टं मानात्पश्वविधं नाम ।
शान्तिकं पौष्टिकं श्रेष्ठं पार्ष्णिकं (जयदं) मध्यमाने तु ॥ ११ ॥
8
५७
8
12
16
20