________________
नगरविधानम् तस्मात्तु तत्र विद्वद्भिः संविद्धं तदुदीरितम् । महाराष्ट्र(ज)स्य मध्ये तु गृहं तत्कोलकात्मकम् ॥ ४१ ॥ द्विजातिचतुर्वणैर्वर्णान्तरजनैर्वृतम् । बहुकर्मकरैर्युक्तं निगमं तदुदाहृतम् ॥ ४२ ॥ नद्यादिकाननोपेतं बहुतीरजनालयम् । राजमन्दिरसंयुक्तं स्कन्धावारमुदाहृतम् ॥ ४३॥ पार्श्वे चान्यद्विजातीनां गृहं तश्चरिको(कमोदितः(क्तम्) । शत्रभूपालहित्यर्थ नृपरक्षणदुर्गकम् ॥ ४४ ॥ वक्ष्ये यथाक्रमं सर्वा[न]नि दुर्गाणि दुर्गकम् (कंच)। गिरिदुर्ग वनदुर्ग सलिलं पङ्कदुर्गकम् ॥ ४५ ॥ रबा(थ)दुर्ग देवदुर्ग मिश्रदुर्ग तथैव च । पर्वतावृत[तन्]मध्ये(च) पर्वतस्य समीपके ॥ ४६ ॥ पर्वताप्रप्रदेशे तु गिरिदुर्गमिति त्रिधा । तलपर्जन्यान्तरो(र)युक्तं गगनं च प्रवेशनम् ॥ ४७ ।। एतत्तु वनदुर्ग स्याजलदुर्गमिहोच्यते । समुद्रश्च नदीभिश्च संवृतं जलदुर्गकम् ॥ ४८ ॥ पर्वत(त)कन्दरैर्युक्तं दुष्प्रवेशं च शत्रुभिः । दुर्ग तु कृत्वा नृपतिस्तिष्ठत्तत्पङ्कदुर्गकम् ॥ ४६॥ वनाभावे जलाभावे सर्वशून्यादिदूषकम् । चोरैश्च सडुलस्थानं नि[र]प्रामं रथदुर्गकम् ॥ ५० ॥ ब्रह्मराक्षसताल(ल)भूतप्रेतादिभैरवैः(वा.)। शिलावर्ष प्रवर्षन्तीरा(न्त्या)लोक्य वेशनिर्गमे ॥ ५१ ॥ मन्त्रतन्त्रादिसामथ्र्यैः कृतान्तं देवदुर्गकम् । भनेकपर्वतोपेतं नानावनसमिश्रकम् ।। ५२ ।। तत्रास्थितं तु तदर्ग मित्रदुर्गमिति स्मृतम् । सर्वेषामपि दुर्गाणां वप्रैश्च परिचै(खाभि)वृतम् ॥ ५३ ।। प्रवेशनिर्गमस्थाने द्वारैरपि समन्वितम् । इष्टकादिकृतं वप्रं हस्तद्वादशकोच्छितम् ॥ ५४ ॥