________________
ro
नगरविधानम् षट्शतं षट्सहस्रं च दण्डान्तं पूर्ववद्भवेत् । नरेन्द्रस्यापि नगरं त्रिचतुष्टयस्य संख्यया ॥ १३ ॥ षट्सहस्रं नवशतं दण्डान्त पूर्ववद्भवेत् । महाराजस्य नगरमेवं प्रोक्तं तु पूर्ववत् ॥ १४ ॥ शतद्वयसमायुक्तं दण्डान्तं सप्तसहस्र[क]म् । चक्रवर्तेस्तु नगरं(र) विशालं पूर्ववद्भवेत् ॥ १५ ॥ अथवाऽयुतदण्डान्तं महती नगरी भवेत् । विस्तारार्धाधिकं वाऽथ पादू(दो) नद्विगुणं तु वा ॥ १६ ॥ द्विगुणान्तं तदायाम नगरस्य तु विस्तृतम् । अथवा दण्डमानेन दण्डदण्डविवर्धनात् ॥ १७ ॥ तद्विस्तारसमाधिक्यमायाम प्रविधीयते । खेटकखवटकादीनां(दि)मानं प्रामोक्तबद्भवेत् ॥१८॥ सर्वेषां नगरादीनां भेदं (दो)लक्षणमुच्यते । नगरं राजधानीयं केवलं नगरं तथा ॥ १६ ॥ पुरं च नगरी चैव खेट(ट) खर्वटमेव च । कुब्जकं पत्तनं चैव शिविरं वाहिनीमुखम् ॥२०॥ स्थानीयं द्रोणकं चैव संविद्धं कोलकं ततः । निगमं स्कन्धावारं च दुर्ग चाष्टविधं भवेत् ॥२१॥ नगरादीनि(दि) संग्राम [च] प्रोक्तदुर्ग च सत्तमम् । राष्ट्रमध्ये नदीतीरे बहुपुण्यजनावृतम् ॥ २२ ॥ मध्ये राजयुतं चैव नगरं कृतमिष्यते । तत्रागते नगर्यन्तं यदि विष्ण्वालयं भवेत् ॥ २३ ॥ राजधानीति तन्नाम विद्वद्भिर्वक्ष्यते सदा ।। चतुर्दिक्षु चतुर गोपुरैश्च समन्वितम् ॥ २४ ॥ रक्षागृहैः समाकीर्ण विष्वक्सेनालयान्वितम्। वणिग्भिश्च समाकीर्णमापणैश्च समावृतम् ।। २५ ॥ अन्तर्बहिर्जनैः पूर्णा(ण) नानादेवालयैरपि । केवलं नगरं प्रोक्तं यदेत(तत्) तन्त्रपारगैः ।। २६ ।।