________________
९]
प्रामलक्षणम्
एवं तु कार्मुकं प्रोक्तं शेषं प्रागुक्तवद्भवेत् ।
चतुर्मुखं ग्राम (खस्य) विन्यासलक्षणं वक्ष्यतेऽधुना ॥ २३७ ॥
चतुरश्रसमाकार मायामं वा प्रकल्पयेत् ।
प्राकारं चतुरश्रं वा प्राक्प्रत्यग्गतायतम् ॥ २३८ ॥ परितस्तु महावीथिर्वीथिरेषा द्विपत्तयुक् । अन्तश्चतुष्पदं मध्ये वीथिका चतुर्दिशि ॥ २३६॥ तच्चतुर्वीथिकामौ च चतुर्द्वारं प्रकल्पयेत् । एकतस्तु महाद्वारमुपद्वारं तु पूर्ववत् ॥ २४० ॥ तत्तच्चतुः क्षुद्रवीथिं संकल्प्य च यथेष्टकम् | परितस्तु महारथ्ये चालयं सर्वजाति (ती) नाम् || २४१ ॥ अन्तश्च शूद्रसंघः स्यादालयं परिकल्पयेत् ।
प्रथवा विप्रसंघश्चेत्पद्ममेव प्रकल्पयेत् ॥ २४२ ॥
श्रथवा वैश्यसंघश्चेत्कोलकोत्म ( कंत ) मुदीरितम् । केचिचतुष्पदे सर्वे द्विजानामालयं भवेत् ॥ २४३ ॥ आग्नेये विप्रसंघश्चेन्नैर्ऋते नृपसंकुलम् ।
वायव्ये वैश्य संघश्चेत्स चे ( तू शूद्रः स्या) दीशदि (दे ) शके ।। २४४ ।। सत्पैशाचपदे चैव सर्वकर्मोपजीविनाम् ।
विष्णुरुद्रादिदेवानां गृहं कुर्यात्पुरोक्तवत् ॥ २४५ ॥ उक्तानुक्तं तु सर्वेषां कुर्यात्प्रागुक्तवद्भवेत् ।
एवं चतुर्मुखं प्रोक्तं प्रामं तेषां (मेषु च ) पुरातनैः ॥ २४६ ॥ रथ्याविरहितस्थाने कुर्याच्चाक्तं नरालयम् ।
रथ्ये नरालयश् (यं ) चेत्सर्वसंपद्विनाशनम् ॥ २४७ ॥ तस्मात्परिहरेच्छिल्पी नगर प्रामादि (म) वास्तुके | अथ पौराणिके प्रामे संदिग्धे वास्तु निर्णयेत् ॥ २४८ ॥ रक्षिता ग्रामविन्यासं (सः) शास्त्रे युक्तं विशेषतः । पुरातनेषु प्रामेषु देवता चौत्सवार्थकम् ॥ २४६ ॥ निर्वास्तु यत्र तत्र स्याद्वास्तु निर्णय मिष्यते ।
पौराण्यां( ये ) देवताहर्म्य सर्वथाऽपि न कारयेत् ॥ २५० ॥
7
४६
476
480
484
488
492
496
500