________________
२८
[प्रध्यायः
252
256
मानसारे पूतना श्यामवर्णा च नीला स्यात्पापराक्षसी। एवं चतुर्विधाः प्रोक्ताः शूलं कपालमुद्धता ॥ १२५ ॥ रक्तवाधरास्तासां द्रष्टा[चो] प्रविलोचनी(ने)। रक्तकेशैविकीर्णैश्च चैशादिकर्णयोर्ब(कर्णानां ब) हिः ॥ १२६ ।। स्थितवास्तुपुरुषोध्वे(पे)तब्रह्मादिदे(दै)वतान्स्थितान् । तद्वास्तुपुरुषं ज्ञात्वा ब्रह्मांशे मध्यकार्य च ॥ १२७ ॥ प्रार्यस्य च पदे मूर्भि(ओ) प्रागुददुखतो विदुः । ऐशाने कोणसूत्रे तु सव्यहस्तं प्रसारितम् ॥ १२८ ॥ नैर्मृत्ये कोणसूत्रे तु सव्यपादं प्रसारितम् । अग्निकोणे तु सूत्रे तु []सव्यहस्तं प्रसारितम् ॥ १२६ ।। वायुकोणे च सूत्रत्वा(तु वा)मपादं प्रसारितम् । विवस्वति पदे चैव दक्षिणं पार्श्वमीरितम् ॥ १३० ॥ भूधरस्य पदे चैव वामपार्श्व विधीयते । मित्रस्य च पदे चैव ज्ञात्वा मेढमुदीरितम् ॥ १३१ ॥ कर्णे मर्मशिरा प्रोक्ता षडविंशद्(वंश) हृदये कचम(यमेकम्)। पश्चिमे दक्षिणे वंशो मूलं तत्प्रागुदप्रयोः ॥ १३२ ॥ एवं वास्तुपुरुष कुजं च कुटिलि(ल)कं कृशम् ।। वास्तुवस्तु प्रयत्नेन देवानां तु नृणां तथा ॥ १३३ ॥ शुभाशुभविधातारं तस्याङ्गाना(ङ्गानि) न पीडयेत् । प्रज्ञानादङ्गहीनं च( चेत्) कर्ता चैव विनश्यति ॥ १३४ ॥ तस्मात्तु शिल्पिभिः(न:) प्राज्ञैः(ज्ञ) ऊहापोहान न योजयेत्(युः)। देवानामपि सर्वेषां ब्रह्मणा(यो) पश्य(बलिं) ते विदुः ॥ १३५ ॥ तत्तत्पदेऽमरान् सर्वान् स्थितान्भक्तिं प्रदक्षिणम् ॥ १३६ ॥
260
264
268
इति मानसारे वास्तुशास्त्रे पदविन्यासलक्षणं नाम सप्तमोऽध्यायः।