________________
[अध्याय ६५]
उत्तमदशतालविधानम् नखं तत्पार्श्वयोश्चैव शेषं तु तत्समाङ्ग(मांस)लम् । यवहीनार्धवेदांशं तर्जनीदीर्घकं भवेत् ॥ १२ ॥ पादहीनं चतुर्भागं मध्यमाङ्गुलमायतम् । सयवत्र्यंशकं चैवानामिकायाममिष्यते ॥ १३ ॥ प्रधीशकद्वयाङ्गुल्यं कनिष्ठाकुलदीर्घकम् । यवाधिक्यांशकं साधं यवहीनाशकं तथा ॥ १४ ॥ यवाधिकं त्रिपादं च त्रिपादं तद्यथाक्रमम् । प्रादेशिन्यादि कनिष्ठान्तं विस्तारं तत्प्रशस्यते ।। १५ ।। स्वस्वतारार्धविस्तारं नखं प्रागुक्तवद् भवेत् । . गुल्फाक्षि(ति) मध्यसूत्रं तु तल(ला)ग्रान्तं तलायतम् ॥ १६ ॥ षड्यवाधिकमष्टांशं तत्सूत्रात्पार्श्यिमूलकम् । वेदांशं चायतं तारं यवोपेतशरांशकम् ॥ १७ ।। पक्षात्पार्श्यिकपर्यन्तं वह्मधीशकमायतम् । पार्णिमूलं षडंशं स्याद् गुल्फाधो त(धस्त)त्प्रदेशके ॥ १८॥ तलमध्यमविस्तारं षडंशं यड्यवाधिकम् । अप्रतारं षडंशं तु तद्घनं च त्रयाइलम् ॥ १६ ॥ पादमध्याच्छ्रयं सार्धवेदमात्रं प्रशस्यते । अकुलीनां द्वि(त्रि)पर्व(4) स्याच्छेपं युक्त्या प्रयोजयेत् ॥२०॥ सपादभूताडलं चैव गुल्फतारमिति स्मृतम् । सपादवेदाङ्गलं चोर्ध्व नालिकाविस्तृतं भवेत् ॥ २१ ॥ जङ्घामध्ये च विस्तारं सार्धषण्मात्रं मानयेत् । जवामूलस्य विस्तारं वसुमात्रं प्रशस्यते ॥ २२ ॥ नवाङ्गलं प्रकर्तव्यं जानुदेशविशालकम् । अरुमध्यविशालं तु द्वादशाइलमीरितम् ॥ २३ ॥ सार्धत्रयोदशांशं स्यादूरुमूल विशालकम् । विंशाशं च कटितारमू श्रोणि विशालकम् ॥ २४ ॥ सार्धमष्टादशाइल्यं मध्योदरविशालकम् । षोडशाशं भवेचोर्ध्वं हृदयावधितारकम् ।। २५ ॥
4.