________________
६४ा
प्रतिमाविधानम् . गुरुशुक्रबुध[२] चन्द्रमुख्यवारं प्रशस्यते । तस्करोधन(न) षण्डश्च(ण्डं च) प्रेष्यान्यानि शुभांशकम् ॥ ४० ॥ वय॑ षष्टाष्टमं राशिमन्यत्सर्व शुभं भवेत् । गस्(जः) सर्वशुभं प्रोक्तं मानुषासुरं वर्जयेत् ॥ ४१ ॥ एकनेत्रं द्विनेत्रं वा संयुक्ता सं(क्तांशं) विसर्जयेत् । शुभयोगं शुभमेवं मृत्युयोगविनाशनम् ।। ४२ ॥ यत्र दोषो गुणाधिक्यं तत्र दोषो न विद्यते । तेषामधिकगुणं वान(न्यं) सर्वदोषकर भवेत् ॥ ४३ ॥ तस्मात्परिहरेद् विद्वान् जनमेवं प्रकल्पयेत् । तन्मात्राङ्गलमानोच्चमात्मार्थ प्रयम् (योजयेत्) ॥४४ ॥ कुर्यादायादि सर्वेषां चोक्तवच्छिल्पिवित्तमः । अन्या(न्यो)न्यमन्यता ग्राह्यं चोक्तवत्तत्र(त्त)वित्तमः ॥ ४५ ॥ ब्रह्माविष्णु[श्च]रुद्राणां बुध(ख)स्य ज(जि)नकस्य च । अन्यैश्च व(न्येषां च प्रतिमानामवं) मानं तु संग्रहम् ॥ ४६॥ एवं तु चोत्सवादीनां स्थावरं (र)जङ्गमादिनः(दीनाम्) ।
इति मानसारे वास्तुशास्त्रे प्रतिमाविधानं नाम चतुःषष्टितमोऽध्यायः ॥