________________
[ध्यायः ६४]
प्रतिमाविधानम् नवमेकादशं चैव दधिक्यं वाथ हीनकम् । एवं लिङ्गवशात्प्रोक्तं विष्णुबेरवशो(शादु)च्यते ।। १२ ॥ मूलबेरसमं वापि नेत्रान्तं वा पुटान्तकम् । हन्वन्तं बाहुसीमान्तं स्तनान्तं हृदयान्तकम् ॥ १३ ॥ नाभ्यन्तं मेढसीमान्तं नवमानं चोत्सवोदयम। तदर्ध कौतुकोत्सेधं कन्यसादि त्रयं त्रयम् ।। १४ ।। शुद्धगर्भगृहं कृत्वा नन्दनन्दोदयं भवेत् । तदेवं नवमानं स्यान्नवतिविधमानकम ।। १५ ।। एवं गर्भगृहमानवशान्मानं प्रकल्पयन् । प्रासादविधृ(स्तृ)ते मानं गर्भगेहप्रमाणवत् ॥ १६ ॥ शुद्धद्वारादयं वाथ विस्तार.' [चाया]मे [ए]व वा । तत्पादाधिकहीनं वा तत्त(न)यामध्यमानके ।। १७ ॥ समं वा पादमाधिक्यं द्वारमानं दशा(नवा)दयम् । अधिष्ठानोदयं चैव पादतुङ्ग(ङ्ग) द्वयं ततः ॥ १८ ॥ प्रत्येकं नवधा कृत्वा नवमानमुदीरितम् । हस्तादिनवहस्तान्तं हस्तमानवशोदयम् ।। १६ ।। तालादिनवतालान्तं नवतालादिमानकम् । मुष्ट्यादि नवमुष्ट्यन्तं मुष्टिमाननवोदयम् ॥ २० ॥ कर्तृतुङ्गसमं वापि नेत्रान्तं च पुटान्तकम् । हन्वन्तं स्कन्धसीमान्त स्तनान्तं हृदयान्तकम् ॥ २१ ॥ नाभिमेढविधानं स्यात्कर्तृमानं नवोदयम् । एतेषां चाष्टमानं तजात्यशैस्तु नियोजयेत् ॥ २२ ॥ तन्मानं शिल्पिभिः प्राज्ञा(जैः) षट्शुभायादि कारयेत् । प्रशुभायादिकं चोक्तं त्रिंशद्भाग(गे) विभाजिते ॥ २३ ॥ तद्भागैकेन वृद्धिः स्याद् यश् शु(च्छु)भायादिसंभवम् । सकलं चोत्सवादीनां यश् शु(च्छु)भांशावसानकम् ॥ २४ ॥ अंशकं मानमेवोक्तमङ्गलैर्मानमुच्यते । यलिङ्गतुङ्गं संग्राह्य चतुर्विशच्छतान्तकम् ॥ २५ ॥