________________
सलक्षणम् प्रथ वक्ष्ये त्रिमूर्तीनां वाहनानां तु लक्षणम् । हंसस्य लक्षणं चैव गरुडस्य तु लक्षणम् ॥१॥ वृषस्य लक्षणं चैव सिंहरूपस्य लक्षणम् । पितामहोदयं वापि द्वित्रयांशैकमेव वा ॥२॥ उत्तमादि त्रिधा प्रोक्तं हंसोदयमिति स्मृतम् । द्वितालोत्तममानेन भागं हंसोदयं भवेत् ।। ३।। वेदांशं शिरसो तु(सस्तु)ङ्गमष्टांशेन गलोदयम् । रुद्रांशो(शं) हृदयतुङ्गं स्यानस्याधोऽधा(ध ऊ)रुदीर्घ (दैय)कम् ॥ ४ ॥ सत्रिपादांशकं जानुतुङ्गमेकांशमीरितम् । उरुतुङ्गसमं जडायामं पादोदयांशकम् ॥५॥ मुखायाम त्रिय(त्रयां)शं स्याच्छिर:पृष्ठे द्वयांशकम् । मुखतारं युगांशं स्यान्मूलनावं शिवांशकम् ॥ ६॥ प्रप्रमूलाग्रक्षयं वारं प्रोवम्य(वं स्याद्) द्विवक्रयुक् । कुक्षितारा(रम)ष्टमात्रं स्यादुर(र.)स्थानं तु तत्समम् ।।७॥ तदुत्तरपुच्छमूलादायाम षोडशांशकम् । प्रक्षतारं शराडल्यं पक्षायामा(मम)ष्टमात्रकम् ॥८॥ विस्तारं च द्विमानं स्यादप्रमेकालं भवेत् ।। घनमेकाङ्गलं चैव बाहुदीर्घा(दैर्घ्यम)ष्टमात्रकम् ॥६॥ अंशेन कूपरं स्यात्कराणायाम षडङ्गलम् । . लागलाकारहस्तौ च पक्षस्यान्वं प्रविष्टके ॥१०॥ ऊठमूलविशालं स्यात्सार्धवंशं सुवृत्तकम् । मध्यधीशा(शम)प्रविस्तारं पादांशं जानुविस्तृतम् ॥११॥