________________
मध्यरङ्गविधानम्
देवानां च नृपाणां च स्थानकासनयोग्यकम् । मुक्ता (क्त) प्रपाङ्गमानं च लक्षणं वक्ष्यतेऽधुना ॥ १ ॥
यद्युक्तमध्यरङ्गे तु चतुखिंशद्विभाजिते । एकैकं भागहीनं स्यात्प्रपा विस्तारमिष्यते ॥ २ ॥
तच्चतुर्भागिकैकेन तन्मसूरकतुङ्गम् । तद्वयं पादतु स्वात्तदर्थं प्रस्तरोदयम् ॥ ३ ॥ प्रथवाष्टांशकं तुङ्गे विभजेत्तद्विशेषत: ।
प्रर्धा (य) धशेन वेदिः स्यात्पच्चांशं चाप्रितुङ्गकम् ॥ ४ ॥ प्रपा (प्रस्तर) तुङ्गं शिवांशं (ध) स्यादथवा षड्विभाजिते । एकांशं वेदिकात्तुङ्गं चतुर्भागा (गम) धितुङ्गकम् ॥ ५ ॥ एकांशं मध्यतुङ्गं स्यात्सर्वालङ्कारसंयुतम् । एकत्रिभक्तिकं वापि चतुरर्धाङ्घ्रिसंयुतम् ॥ ६ ॥
सर्वेषां पादविस्तारं त्रिचतुष्पथ्चाङ्गुलं भवेत् । धान्य (दारू) स्तम्भमिति प्रोक्तं शिलास्तम्भं विशेषतः ॥ ७ ॥
सप्ताष्टाङ्गुलं वापि शिलास्तम्भं (म्भ ) विशालकम् । वृतं वा चतुर वा म (चा) ष्टाश्रं षोडशाश्रकम् ॥ ८ ॥ पादतुङ्गेऽष्टभागे तु त्रयांशेनार्ध्वमलङ्कृतम् । बोधिकं मुष्टिबन्धं च फलका ना(ता) टिका घटम् ॥ ६॥
सर्वालङ्कारसंयुक्तं मूले पद्म समन्वितम् । चतुर्दिक्षु चतुर्भद्रं केचिद् भद्रं तु कारयेत् ॥ १० ॥
4
8
12
16
20