________________
तोरणविधानम् देवानां भूपतीनां च भूषणार्थ(?गृहादीना) च तारणम् । तक्षणं विधानं च यथा सम्यक् प्रवक्ष्यते ॥१॥ मासनोपरि विन्यस्य(सेत) सर्वेषामपि तारणम् । विस्तारे मध्यसूत्रस्य चापर वोरणा[नि] न्यसेत् ॥२॥ पीठतारार्धभागे तु मध्ये चाङ्ग्रिकमध्यमम् । अथवा तत्रिभागैकांशं चापरपूर्वके ॥३॥ तन्मध्ये तोरणस्तम्भं मध्यं वा सर्वतो न्यसेत् । पीठायामं त्रिभागैकं यशायामार्धमेव वा(च)॥४॥ पीठायामे चतुर्भागे त्रिय(त्रयां)शं चाप(इघि)कान्त[२]म् । अथवा पञ्चषट्सप्तसाष्टभागैकहीनकम् ॥ ५॥ स्तम्भमध्ये तु बाह्ये वा पूर्ववञ्चान्तरं तु वा । पीठतारसमोचं वा सपादाधिकमेव वा ॥ ६ ॥ त्रिपादादधिकोत्सेधं तत्समं वाधिकोन्नतम् । मायामसदृशोत्सेधं तत्पादाधिकमेव वा ।। ७ ॥ अर्ध त्रिपादं तत्तुल्याधिकं वा तोरणोदयम् । तेन मानोदयं सर्व शुद्धतारणमानकम् ॥८॥ त्रिचतुष्पञ्चषट्सप्तचा(प्ता)ष्टनन्ददशाङ्गुलम् । एकादशाङ्गुलं वापि नवधा वारणोदयम् ॥६॥ त्रिचतुष्पञ्चषण्मात्रं पादविष्कम्भमिष्यते । तत्समं च त्रिपादं च सा(चा) वा बहलं भवेत् ।। १०॥ गदं सतोरणं कुर्यात्तोरणात्रि परिन्यसेत् । पादाने पट्टिकोपेतं तन्मानं वश्यतेऽधुना ॥ ११ ॥
38