________________
द्वारस्थानविधानम्
द्वारस्थानस्य विन्यासं लचणं वक्ष्यतेऽधुना ।
देवानां भूसुरादीनां वर्णानां च गृहे गृहे ॥ १ ॥
देवा (भूपा) नां हर्म्यके सर्वे (र्वस्मिन्) प्राकारे मण्डपे तथा । चतुर्दिक्षु चतुर्द्वारं चोपद्वारं यथेष्टकम् ॥ २ ॥
यथान्तरालदेशे तु मध्ये द्वारं प्रकल्पयेत् । भित्तिमध्ये यथा कुर्यात्तत्र दोषो न विद्यते ॥ ३ ॥ प्रच्छादनं यथाहयें द्वारं कुर्यात्तथैशके । जलद्वारं यथासारं (लं) निम्नदेशे प्रकल्पयेत् ॥ ४ ॥ दक्षिणे च कवाटे तु द्वारं कुर्यात्तु मुख्यके । तिर्यमध्ये तु सूत्र: (i) स्यादधादेशे प्रकल्पयेत् ।। ५ ।।
देवानां च मनुष्यायां महाद्वारं कवाटके ।
द्वारायां तु यथामुख्ये युक्त्या सोपानसंयुतम् ॥ ६ ॥ एवं तु देवहर्म्यादिद्वारं कुर्याद् विचचणः । नराणां च गृहे सर्वे द्वारस्थानं तु वक्ष्यते ॥ ७ ॥ गृहायामे विशाले तु नन्दनन्दपदं भवेत् । पूर्वद्वारं च हर्म्याणां महाद्वारं महेन्द्रके ॥ ८ ॥
अथवा मध्यसूत्रस्य वामे द्वारं प्रकल्पयेत् । ईशे वाघ पर्जन्ये चादिते (तौ) चोदिते तथा ॥ ६ ॥
88
8
12
16