________________
२६२
मानसारे पचानां प्रत्यकुर्वीत पादप्रक्षालनक्रियाम् ] । विधिवदाचमनं कृत्वा मण्डपान्तः प्रविश्यतु(शेत्ततः)॥१२॥ स्थण्डिले मण्डलं कृत्वा प्रस्तरे शुद्धशालिभिः । नवेन वारिकुम्भानि शुद्धतोयेन पूरयेत् ॥ १३ ॥ सूत्रेण नववस्त्रेण कुम्भाना(नि) परिवेष्टयेत् । नालिकेरफलद्यै(लादिभि)श्च युक्तं कूर्चेश्च पल्लवैः ॥ १४ ॥ पञ्चविंशपदं न्यस्य शुद्धतण्डुल(लेन) कारयेत् । कुशदर्भान्परिस्तीर्य तण्डुले चोक्तवत्क्रमात् ॥१५॥ ब्रह्मादिनवकुम्भाश्(नि) च तण्डुलोपरि विन्यसेत् । स्वर्णेन प्रतिमां कृत्वा देवतानां विशेषतः ॥१६॥ तत्तद्वस्त्रेषु संवेष्टय तत्तन्मंत्रेण पूजयेत्। उपवासमुपक्रम्य कर्ता स्वगृहिणी(ण्या) सह ॥१७॥ पीत्वा शुद्धं पयो रात्रावुपोष्य दिवसे पुनः । गृहिणीभर्तृहस्तौ च गृहस्तम्भ(म्भ) स्वयं करे ॥१८॥ रक्षाबन्धं ततः कुर्याद् वाचयेत्स्वस्तिवाचकम् । तत्तद्वाहनादीनां च यत्प्रधानायुतापि च ॥ १६ ॥ दिवा पा रात्रिकाले वा कुर्यात्तदधिवासनम् । साइराः पालिकाः सर्वाः स्थण्डिलोपरि विन्यसेत् ।। २०॥ ब्रह्मादिदेवतानां च(ताश्चैव) पूजयेत्स्थपतिर्बुधः । तत्तत्स्वनाममन्त्रेण प्रणवादिनमोऽन्तकम् ॥२१॥ इलेखा मध्यकुम्भे तु पूजयेद् विधिवद् बुधः । गन्धपुष्पैः समभ्यर्च्य धूपदीपं ददेत्(त) पुनः ॥२२॥ पायसा(सौ)दनशस्यादीन् ताम्बुलादिदि) निवेदयेत् । नृत्तगीतादिवायादिजयशब्दादिमङ्गलैः ॥२३॥ अग्निकार्य ततः कुर्यात्स्थण्डिलं(लप्राग्दिशि तथा । कुण्डे वा स्थण्डिले वापि समिदाज्यचरं तिलम् ॥२४॥ लाजकैश्चैव पश्चैते प्रत्येकाष्टादशाहुतीः । प्रणवादिखाहान्तं स्यात् श(च्छ)क्तिबीजं समुचरेत् ॥२५॥